अहोरात्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अहोरात्रः, पुं, (अहश्च रात्रिश्च द्वयोः समाहारः । रात्राह्णाहाः पुंसि । अहः सर्व्वैकदेशे टच् इति टच् ।) दिवानिशं । स तु सूर्य्योदयद्वयपरिच्छिन्न- त्रिंशन्मुहूर्त्तात्मककालः । इत्यमरः ॥ मनुष्याणां मासेन पैत्रोऽहोरात्रो भवति । मनुष्याणामेक- वर्षेण देवानामहोरात्रोभवति । द्विसहस्रगुणित- मानुष्यचतुर्युगमानेन ब्रह्मणोऽहोरात्रो भवति । तत्र मनुष्यमानेन ८६४००००००० वर्षा भवन्ति ॥
