आकारगुप्तिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारगुप्तिः, स्त्री, (आकारस्य गुप्तिः ।) रत्या- दिसूचको मुखरागादिराकारः । आकारोऽङ्ग- वैकृतमिति वोपालितः ॥ गुप्तिर्गोपनं । आकारस्य भयलज्जादिना गुप्तिराकारगुप्तिः । इत्यमर- टीकायां भरतः ॥ तत्पर्य्यायः । अवहित्था २ । इत्यमरः ॥ अङ्गविकृतस्य रोमाञ्चादेराच्छादनात् अवहिःस्थितिरवहित्था । इति सारसुन्दरी ॥ (“भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था” । इति साहित्यदर्पणम् ।)

"https://sa.wiktionary.org/w/index.php?title=आकारगुप्तिः&oldid=115012" इत्यस्माद् प्रतिप्राप्तम्