आकालिकप्रलयः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकालिकप्रलयः, पुं, (आकालिकः प्रलयः ।) प्रलय- विशेषः । स्वायम्भुवमन्वन्तरे कपिलशापेन अकाले जगत्प्लावनं । तद्विवरणं यथा -- श्रीमार्कण्डेय उवाच । “आकालिकोऽयं प्रलयो यतो भगवता कृतः । तत् शृण्वन्तु महाभागा वाराहं लोकसंक्षयं ॥ यथा वा मत्स्यरूपेण वेदास्त्राताश्च शार्ङ्गिणा । तदहं संप्रवक्ष्यामि सर्व्वपापप्रणाशनं” ॥ श्रीकपिल उवाच । “स्वायम्भुव मनुश्रेष्ठ ब्रह्मरूप महामते । ममैकमीप्सितार्थं त्वं देहि प्रार्थयतोऽधुना ॥ जगत् सर्व्वं तवैवेदं त्वया च परिपालितं । त्वया सर्व्वं जगत् सृष्टं त्वमेव जगतां पतिः ॥ तन्मे देहि रहःस्थानं त्रिषु लोकेषु दुर्लभं पुण्यं पापहरं रम्यं ज्ञानप्रभवमुत्तमं ॥ अहं हि सर्व्वभूतानां भूत्वा प्रत्यक्षदर्शिवान् । उद्धरिष्ये जगज्जातान् निर्माय ज्ञानदीपिकाम् ॥ अज्ञानसागरे मग्नमधुना सकलं जगत् । ज्ञानदीपं प्रदायाहं तारयिष्ये जगत्प्लवं” ॥ श्रीमनुरुवाच । “यदि त्वयाखिलजगद्धितार्थं ज्ञानदीपिकां । चिकीर्षुणा तपः कार्य्यं किं स्थानार्थनया तव ॥ देवागाराणि तीर्थानि क्षेत्राणि सरितस्तथा । बहूनि पुण्यभाञ्ज्यत्र तिष्ठन्ति कपिल ! क्षितौ ॥ तेषामेकतमं त्वञ्चेदासाद्य कुरुषे तपः । स्थानं ब्रह्मन् तपःसिद्धौ न भविष्यति तत्र किं” ॥ कपिल उवाच । “त्वयि विश्रम्भमाधाय तपसः सिद्धयेऽचिरात् । स्थानं मया प्रार्थितं ते त्वं मां क्षिपसि हेतुभिः ॥ अक्षाम्यन्ते वचो मेऽद्य प्रार्थनायां विकत्थनं । यत्त्वं वदसि तस्मात्त्वं फलमेतदवाप्नुहि ॥ इदं त्रिभुवनं सर्व्वं सदेवासुरमानुषं । हतप्रहतविध्वस्तमचिरेण भविष्यति ॥ न चिरात् द्रक्ष्यसि मनो ! जलपूर्णं जगत्त्रयं । हतप्रहतविध्वस्तं तव गर्व्वविशातनं ॥ एवमुक्त्वा मुनीन्द्रोऽसौ कपिलस्तपसां निधिः । अन्तर्दधे जगामापि तदा ब्रह्मसदो मुनिः ॥ कपिलम्य वचः श्रुत्वा विषण्णवदनो मनुः । भावीति प्रतिपद्याशु मनुर्नोवाच किञ्चन ॥ विशालां वदरीं यातो गङ्गाद्वारान्तिकं मनुः । प्रविश्य तपसे यत्नमकरोल्लोकभावनः । आराधयामास हरिं जगत्कारणकारणं ॥ ओ~ नमो भगवते वामुदेवाय शुद्धज्ञानस्वभाविने । इति जप्यं प्रजपतो मनोः स्वायम्भुवस्य तु ॥ प्रसनाद जगन्नायः केशवो न चिरादथ । ततः क्षद्रझसो भूत्वा दूर्व्वादलममप्रभः ॥ कर्परकलिकायुग्भतुल्यनेत्रयगोज्यलः । एवं हि मत्स्यरूपेण वेदास्त्राताश्च शार्ङ्गिणा । कपिलस्य तु शापेन कृतोऽथाकालिको लयः ॥ आकालिकोऽयं प्रलयो यतो भगवता कृतः । इति वः कथितं सर्व्वं यथावत् द्विजसत्तमाः” ॥ इति कालिकापुराणे ३२ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=आकालिकप्रलयः&oldid=115020" इत्यस्माद् प्रतिप्राप्तम्