आकालिकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकालिकम्, त्रि, (समानकालौ आद्यन्तौ यस्य । “आकालिकडाद्यन्तवचने” इति समानकालस्या- कालादेशः । इकट् प्रत्ययश्च निपातनात् । यद्वा अकाले भवम् । अकाल + ठञ् ।) क्षणध्वंसि । इति धरणिः ॥ समानकालीनजन्मविनाशशाली । इति संक्षिप्तसारः ॥ अकालसम्भवं । आरम्भ- कालात् तत्सजातीयकालस्थायि । निमित्तं काल- मारभ्य परेद्युर्यावत्कालः स एव कालस्तावदकाल- स्तत्र भवः । इति तिथितत्त्वं ॥ (यथा मनौ ४ । १०५ (“एतानाकालिकान् विद्यादनध्यायानृतावपि” । “तपस्विनः स्थानुवनौकसस्ता- माकालिकीं वीक्ष्य मधुप्रवृत्तिम्” ॥ इति कुमारसम्भवे ३ । ३३ ॥)

"https://sa.wiktionary.org/w/index.php?title=आकालिकम्&oldid=115018" इत्यस्माद् प्रतिप्राप्तम्