आक्रान्तः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आक्रान्तः, त्रि, (आङ् + क्रम + क्त) कृताक्रमणः । अधिक्रान्तः । आक्रमविशिष्टः । इति हलायुधः ॥ (अभिभूतः । पराभूतः । वशीभूतः । यथा मनुः -- “न पाषण्डिगणाक्रान्ते नोपसृष्टेऽन्त्यजैर्नृभिः” ।)
