सामग्री पर जाएँ

आगन्तुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आगन्तुः, त्रि, (आङ् + गम् + तुन् ।) अतिथिः । इत्यमरः ॥ आगमनशीलः । अनियतः ॥ (“अकस्मादागन्तुना सह विश्वासो न युक्वः” । इति हितोपदेशः । आकस्मिकरोगादि । यथा, “आगन्त्वपि शरीरशल्यव्यतिरेकेण यावन्तोभावा दुःखमुत्पादयन्ति” । इति शुश्रुतः । निजागन्तुभेदेन रोगस्य कारणद्वैविध्यादागन्तु- शब्दोऽयमामयस्यान्यतरकारणवाची । तद्यथा, -- “द्विविधा पुनः प्रकृतिरेषामागन्तुनिजविभा- गात्” । “मुखानि तु खल्वागन्तोर्नखदशनपतना- भिचाराभिशापाभिषङ्गबधबन्ध-पीडन-रज्जु-दहन- मन्त्राशनि-भूतोपसर्गादीनि” । “आगन्तुर्हि व्यथापूर्ब्बमुत्पन्नो जघन्यं वातपित्तश्लेष्मणां वैषम्यमापादयति” । उदाहरणं । “तत्रागन्तवश्छेदनभेदनक्षणनभञ्जन- पिच्छनोत्पेषणवेष्टनप्रहार-बध-बन्धन-व्यधन-पीड- नादिभिर्व्वा । भल्लातक-पुष्पफलरसात्मगुप्ताशूक- क्रिमिशूकाहितपत्रलतागुल्मसंस्पर्शनैर्वा स्वेदन- परिसर्पणावमूत्रणैर्व्वा विषिणाम् ॥ सविषाविष- प्राणिदन्तविषाणनखनिपातनैर्व्वा । सागरविषवात-हिम-दहन-संस्पर्शनैर्व्वा शोथाः समुपजायन्ते” ॥ इति चरकेणोक्त ॥

"https://sa.wiktionary.org/w/index.php?title=आगन्तुः&oldid=115131" इत्यस्माद् प्रतिप्राप्तम्