आगन्तुकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आगन्तुकम्, त्रि, (आगन्तु + स्वार्थे कन्) आहार्य्यं । अनित्यस्थायि । इति त्रिकाण्डशेषः ॥ (अज्ञातकुलशीलादिर्नवागतः पुरुषः । यथाः “त्वया च मूलभृत्यानपास्यायमागन्तुकः पुर- स्कृतः” । इति हितोपदेशे ॥ अतिथिः । अज्ञात- स्वामिकः पश्वादिः । यथा याज्ञवल्क्ये ॥ “महोक्षोत् सृष्टपशवः सूतिकागन्तुकादयः । पालो येषां तु ते मोच्या दैवराजपरिप्लुताः” ॥ आकस्मिकक्षतादिरोगः । यथा, शुश्रुते । “शलश्वल आशुगमने धातुस्तस्य शल्यमितिरूपं तत् द्विविधं, शारीरमागन्तुकं च” । इति ॥)
