आगमम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आगमम्, क्ली, (आङ् + गम + अच् ।) तन्त्रशास्त्रं । अस्यार्थः । यथा तन्त्रशास्त्रं ॥ “आगतं पञ्चवक्त्रात्तु गतञ्च गिरिजानने । मतञ्च वासुदेवस्य तस्मादागममुच्यते” ॥ इति (एतल्लक्षणं यथा, -- “सृष्टिश्च प्रलयश्चैव देवतानां तथार्च्चनं । साधनञ्चैव सर्व्वेषां पुरश्चरणमेव च ॥ षट्कर्म्मसाधनं चैव ध्यानयोगश्चतुर्विधः । सप्तमिर्लक्षणैर्युक्तं त्वागमं तद्विदुर्बुधाः” ॥ इति यथा रघुवंशे । १० । २६ ॥ “बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः”)
