सामग्री पर जाएँ

आचमनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आचमनम्, क्ली, (आङ् + चम् + ल्युट्) वैधकर्म्मा- रम्भात् पूर्ब्बं वारत्रयजलपानानन्तरं यथाक्रमा- ष्टाङ्गस्पर्शरूपशुद्धिजनकक्रिया । तत्पर्य्यायः । उ- पस्पर्शः २ । इत्य मरः ॥ आचमः ३ शुचिप्रणीः ४ । इति शब्दरत्नावली ॥ तद्विधानं यथा ॥ “त्रिराचामेदपः पूर्ब्बं द्विः प्रमृज्यात्ततो मुख । संमृज्याङ्गुष्ठमूलेन त्रिभिरास्यमुपस्पृशेत् ॥ अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरं । अङ्गष्ठानामिकाभ्याञ्च चक्षुःश्रोत्रे पुनः पुनः ॥ कनिष्ठाङ्गुष्ठयोर्नाभिं हृदयन्तु तलेन वै । र्व्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशत् ॥ शाट्यायनः । यथा, “स्नानमाचमनं होमं भोजनं देवतार्चन । प्रौढपादो न कुर्व्वीत स्वाध्यायं पितृतर्पणम्” ॥ * ॥ द्विराचमननिमित्तानि ॥ “स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्रा रथ्योपसर्पणे । आचान्तः पुनराचामेद्वासो विपरिधाय च” ॥ ब्रह्मपुराणं ॥ यथा, “होमे भोजनकाले च सन्ध्ययोरुभयोरपि । आचान्तः पुनराचामेदन्यत्रापि सकृत् सकृत्” ॥ * ॥ अथाचमननिमित्तानि ॥ “निष्ठीवने तथाभ्यङ्गे तथा पादावसेचने । उच्छिष्टस्य च सम्भाषादशुच्युपहतस्य च ॥ सन्देहेषु च सर्व्वेषु शिखां बद्ध्वा तथैव च । विना यज्ञोपवीतेन नित्यमेवमुपस्पृशेत् ॥ उष्ट्रवायससंस्पर्शे दर्शने चान्त्यवासिनां” ॥ हारीतः । यथा, स्त्रीशूद्रोच्छिष्टसम्भाषणे मूत्रपुरीषोत्सर्गदर्शने देवमभिगन्तुकाम आचामेत् ॥ * ॥ अथ आचमनप्रतिप्रसवमाह स्मृतिः । यथा, “क्षुते निष्ठीवने सुप्ते परिधानेऽश्रुपातने । कर्म्मस्थ एषु नाचामेद्दक्षिणं श्रवणं स्पृशेत्” ॥ वृद्धशातातपः । “वातकर्म्मणि निष्ठीवे दन्तश्लिष्टे तथानृते । क्षुते पतितसंलापे दक्षिणश्रवणं स्पृशेत्” ॥ मार्कण्डेयपुराणम् ॥ यथा, “कुर्य्यादालम्भनं स्पर्शं गोपृष्ठस्यार्कदर्शनम् । कुर्व्वीतालभनं वापि दक्षिणश्रवणस्य च ॥ यथाविभवतो ह्येतत् पूर्ब्बाभावे ततः परम्” ॥ * ॥ आचमने जलाधारनिषेधमाह । उशनाः ॥ यथा, “कांस्यायसेन पात्रेण त्रपुसीसकपित्तलैः । आचान्तः शतकृत्वोऽपि न कदाचित् शुचिर्भवेत्” ॥ इति गोपालपञ्चाननकृताचारनिर्णयः ॥ “आयतं पर्ब्बणां कृत्वा गोकर्णाकृतिवत् करं । संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः ॥ मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं चरेत् । मासमज्जनमात्रास्तु संगृह्य त्रिः पिबेदपः” ॥ इति भारद्वाजः ॥ “अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्वुदैः । हृत्कण्ठतालुगाभिश्च यथासंख्यं द्विजातयः ॥ शुध्येरन् स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः” ॥ इति याज्ञवल्क्यः ॥ “हृद्गाभिः पूयते विप्रः कण्ठगाभिश्च भूमिपः । वश्योऽद्भिः प्राशिताभिश्च शूद्रः स्पृष्टाभिरन्ततः” ॥ इति मनुः ॥ “स्तियास्त्रैदशिकं तीर्थं शूद्रजातेस्तथैव च । सकृदाचमनाच्छुद्धिरेतयोरेव चोभयोः” ॥ इति मिताक्षरा ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आचमनम् [ācamanam], 1 Rinsing the mouth, sipping water before religious ceremonies, before and after meals &c. from the palm of the hand; दद्यादाचमनं ततः Y.1.243, 195 (part of the water sipped being usually allowed to drop down).

The water used for rinsing the mouth.

Gargling the throat.

N. of a plant Andropogon muricatum (Mar. वाळा).

Water for rinsing the vulva (Āyurveda). -Comp. -धारिन्, -वाहिन् m. A drawer of water; (Hch.5.6.)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--the mode and significance of; फलकम्:F1: वा. ७९. ४२-47.फलकम्:/F occasions for performing आचमनम्। फलकम्:F2: Ib. ७९. ३७-42.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=आचमनम्&oldid=425958" इत्यस्माद् प्रतिप्राप्तम्