सामग्री पर जाएँ

आचमनीयम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आचमनीयम्, क्ली, (आचम्यतेऽनेन । आङ् + चम् + अनीयर् ।) मुखप्रक्षालनार्थजलं । तद्दानविधि- र्यथा, कालिकापुराणे ६७ अध्यायः ॥ “दद्यादाचमनीयन्तु सुगन्धिसलिलैः शुभैः । कर्पूरवासितैर्व्वापि कृष्णागुरुसुधूपितैः ॥ यथा तथा सुगन्धैर्व्वा प्रसन्नैः फेनवर्ज्जितैः । तत्तैजसेन पात्रेण शङ्खेनाथ प्रदापयेत् ॥ उदकं दीयते यत्तु प्रसन्नं फेनवर्ज्जितं । आचमनाय देवेभ्यस्तदाचमनमुच्यते ॥ केवलं तोयपात्रेण तदा दद्यान्नमिश्रितं । वासितन्तु सुगन्ध्याद्यैः कर्त्तव्यं यदि लभ्यते ॥ आयुर्ब्बलं यशोवृद्धिं प्रदायाचमनीयकं । लभते साधको नित्यं कामांश्चैव यथेप्सितान्” ॥

"https://sa.wiktionary.org/w/index.php?title=आचमनीयम्&oldid=115201" इत्यस्माद् प्रतिप्राप्तम्