आचार्य्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आचार्य्यः, पुं, (आङ् + चर् + ण्यत् ।) वेदाध्या- पकः । वैदिकमन्त्रव्याख्याकर्त्ता । तत्पर्य्यायः । मन्त्रव्याख्याकृत् २ । इत्यमरः ॥ द्रोणाचार्य्यः । इति त्रिकाण्डशेषः ॥ तल्लक्षणं यथा, -- “उपनीय तु यः शिष्यं वेदमध्यापयेत् द्विजः । सकल्पं सरहस्यञ्च तमाचार्य्यं प्रचक्षते” ॥ इति मानवे २ । २४० ॥ (ततोऽनन्तरमाचार्य्यं परीक्षेत । तद्यथा, -- “पर्य्यवदातश्रुतं परिदृष्टकर्म्भाणं दक्षं दक्षिणं शुचिं जितहस्तमुपकरणवन्तं सर्व्वेन्द्रियोपपन्नं प्रकृतिज्ञं प्रतिपत्तिज्ञमनुपस्कृतविद्यमनसूयकमकोपनं क्ले- शक्षमं शिष्यवत्सलमध्यापकं ज्ञानदानसमर्थमि- त्येवंगुणो ह्याचार्य्यः सुक्षेत्रमार्त्तवो मेघ इव शस्यगुणैः सुशिष्यमाशु वैद्यगुणैः सम्पादयति । तमुपसृत्यारिराधयिषुरुपचरेदग्निवच्च देववच्च राजवच्च पितृवच्च भर्त्तृवच्चाप्रमत्तस्ततस्तत्प्रसादात् कृत्स्नं शास्त्रमधिगम्य शास्त्रस्य दृढतायामभि- धानसौष्ठवस्यार्थस्य विज्ञाने वचनशक्तौ च भूयः पयतेत सम्यक्” । इति चरकः ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आचार्य्य¦ पु॰ आ + चर--ण्यत्।
“उपनीय तु यः शिष्यंवेदमध्यापरेत् द्विजः। सकल्पं सरहस्यं च तमाचार्य्यंप्रचक्षते” इति मनक्तलक्षणे
१ वेदाध्यापयितरि,[Page0638-b+ 38]
“आम्नायतत्त्वविज्ञानाच्चराचरसमानतः। यमादियो-गसिद्धत्वादाचार्य्य इति कथ्यते” इत्युक्तलक्षणे
२ मतप्र-स्थापके शङ्कराचार्य्यादौ च। स्त्रियां टाप् आचार्य्या। आचार्य्यपत्न्यान्तु ङीष् आनुक् च आचार्य्यानी नणत्वम्।
“अग्निहोत्री तपस्वी च वेदमध्यापायेच्चयः। सकल्पं सरहस्यं च तमाचार्य्यं प्रचक्षते” दक्षः
“कस्मादाचार्य्य आचारं ग्राहयत्याचिनोत्यर्थान् आचिनोतिबुद्धिमिति वा” निरु॰
“आचार्य्यस्तु ते गतिं वक्तेति” छा॰उप॰
“आचार्य्यात् पादमादत्ते पादं शिष्यः स्वमेधया। कालेन पादमादत्ते पादं सब्रह्मचारिभिः” नीलकण्ठधृतास्मृतिः। क्रमेणाचार्य्यसच्छिष्यधर्म्मभ्रात्रे कतीर्थिनः” याज्ञ॰। यज्ञादौ कर्मोपदेशके
३ गुरौ
“आचार्य्यस्तुयथा स्वर्गे शक्रादीनां वृहस्पतिः तथा त्वं मम यज्ञेस्मिन्नाचार्य्यो भव सुव्रत! यथा शक्रस्य वागीश आचार्य्यःसर्व्वकर्म्म सु। तथा मया त्वमाचार्य्यः वृतोऽस्मिन् यज्ञक-र्म्मणि” इति विधानपारि॰ पुरा॰।
४ पूज्यमात्रे त्रि॰सुराचार्य्यः दैत्याचार्य्यः
५ शिक्षकमात्रे च
“लङ्कास्त्रीणांपुनश्चक्रे विलापाचार्य्यकं शरैः” रघुः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आचार्य्य¦ m. (-र्य्यः)
1. A spiritual guide or teacher; he who invests the student with the sacrificial thread, and instructs him in the Vedas, the law of sacrifice, and religious mysteries.
2. A name of DRONA, the teacher of the Pandus. f. (-र्य्या) A spiritual preceptress. f. (-र्य्याणी) The wife of an A'charya or holy teacher. E. आङ् before चर् to go, ण्यत् affix, in the fem. टाप् or ङीप् with आनुक् inserted.
