आचार्य:
दिखावट
आचार्य:
आचार्य: (पुं)
निर्वचनम् - आचारं ग्राहयति।आचर+य - यास्क: 1.2
निर्वचनम् - आचिनोति अर्थान्। -यास्क: 1.2
विवरणम्- विविधान् शास्त्रार्थान् अर्जयति।दक्षिणारूपेण धनम् अर्जयति।
निर्वचनम् - आचिनोति बुद्धिम्। -यास्क: 1.2
विवरणम्- शिष्यबुद्धिं वर्धयति।
निर्वचनम्- आचारे साधु:। -यास्क: 1.2
विवरणम् - यस्य आचार: अनुकरणीय:।एतद् वैयाकरणै: उक्तं निर्वचनं, न यास्केन।