आजम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आजम्, क्ली, (अज + अण् । अजसम्बन्धी छागस्य घृत- मांसादिः) घृतं । इति जटाधरः ॥ (यथा वैद्यके । “गव्यमाजं तथा चौष्ट्रमाविकं माहिषञ्च यत् । अतो धातुविवृद्ध्यर्थमाजं मांसं प्रशस्यते” ॥) (तथाच रामायणे । २ । ९१ । ६७ । “आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः” । घृतार्थे -- गव्यादिघृतभेदेन यदुक्तं तत्सर्व्वं घृत- शब्दे ज्ञातव्यं किन्त्वाजशब्दव्युत्पत्त्या दुग्धादिकं यदुपलभ्यते तदन्यत्र प्रदर्श्यते ॥ “आजं दधि भवेच्चोष्णं क्षयवातविनाशनं । दुर्नामश्वासकासेषु हितमग्निप्रदीपनं ॥ विपाके मधुरं वृष्यं रक्तपित्तप्रसादनं । शस्तं कार्श्यापहं प्रोक्तं वातपित्तनिवर्हणं” ॥ इति हारीतसुश्रुतौ ॥ “नातिशीतं गुरुस्रिग्धं मांसमाजमदोषलं । शरीरधातुसामान्यादनभिष्यन्दि वृंहणं” ॥ इति चरको वाभटश्च ॥ “गव्यतुल्यगुणन्त्वाजं विशेषाच्छोषिणां हितं । दीपनं लघु संग्राहि श्वासकासास्रपित्तनुत् । अजानामल्पकायत्वात् कटुतिक्तनिषेवनात् ॥ नात्यम्बुपानाद्व्यायामात् सर्व्वव्याधिहरं पयः” । “दध्याजं कफपित्तघ्नं लघुवातक्षयापहं । दुर्नामश्वासकासेषु हितमग्नेः प्रदीपनं ॥ विपाके मधुरं वृष्यं रक्तपित्तप्रसादनं” ॥ “आजं घृतं दीपनीयं चक्षुष्यं बलवर्द्धनं । कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु” ॥ इति च सुश्रुतः ॥)
