आढक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आढकम्, क्ली, (आ समन्तात् ढौकते ढौक्यते वा ढौक गतौ अच् घञ् वा पृषोदरादिः । परि- माणविशेषः । आढा इति भाषा । यथा, -- “शतयोजनविस्तीर्णं त्रिंशद्योजनमायतं । आढकस्य भवेन्मानं मुनिभिः परिकीर्त्तितं” ॥ अपि च ॥ “त्रिंशद्योजनविस्तीर्णं शतयोजनमायतं । विंशयोजनगम्भीरमाढकं परिकीर्त्तितं” ॥ इति गणपतिभट्टः । इति ज्योतिस्तत्त्वं ॥
आढकः, पुं, क्ली, चतुःप्रस्थपरिमाणं । आडी इति भाषा । इत्यमरः ॥ द्रोणचतुर्थभागः । इति लीलावती ॥ अष्टमुष्टिर्भवेत् कुञ्चिरित्यादिवचनात् षट्पञ्चाशदधिकद्विशतमुष्टिर्भवति । व्यवहारे षो- डशसेरो विंशतिसेरो वा । वैद्यकमते अष्टश- रावपरिमाणं । तत्पर्य्यायः । पात्रं २ कंसं ३ भाजनं ४ । इति परिभाषा ॥ (“चतुःप्रस्थैस्तथाढकं । भाजनं कांस्यपात्रञ्च चतुःषष्टिपलञ्च तत्” ॥ इति शार्ङ्गधरः । “चतुःप्रस्थमयाढकं । “पात्रंतदेव विज्ञेयं कंसंप्रस्थाष्टकन्तथा” ॥ इति चरकः ।) अपचयविवक्षायां आढकिकेत्यपि स्यात् । इत्य- मरटीकासारसुन्दरी ॥ आढिका । इति भरतः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आढक पुं-नपुं।
परिमाणः
समानार्थक:आढक,द्रोण,खारी,वाह,निकुञ्चक,कुडव,प्रस्थ,मात्रा
2।9।88।2।1
कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः। अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः॥
: मानार्थः, माननाम, रजतरूप्यकम्, ताम्रकृतकार्षापणः, घटिताघटितहेमरूप्यकम्, ताम्रादिधातोर्रूप्यकम्, आहतरूप्यकहेमादिः, हस्तपरिमाणः, वितस्तपरिमाणः, रूप्यकम्, मानः
पदार्थ-विभागः : , गुणः, परिमाणः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आढक¦ पु॰ आढौकते आ + ढौक--घञ् पृ॰।
“अष्टमुष्टिर्भवेत्कुञ्चिःकुञ्चयोऽष्टौ तु पुष्कलम्। पुष्कलानि च चत्वारिआढकः परिकीर्त्तित इति” मतभेदे चतुर्विंशत्यधिकस-हस्रमुष्टिमाने
“द्वादशप्रसृतिभिः कुडवस्तच्चतुर्गुणोत्तरंप्रस्थाढकद्रोणा, इत्युक्ते द्विनवत्युत्तरशतप्रसृतिमाने च[Page0646-a+ 38] एतच्च धान्यादेर्माने। सुवर्ण्णादिमाने तु सुश्रुतः।
“द्वादश धान्यमाषाः मध्यमाष्टसुवर्ण्णमाषकः ते षोडशसुवर्णम्। अथ मध्यमनिष्पावा एकोनविंशतिर्द्धरणंतान्यर्द्धऋतीयानि कर्षं ततश्चोर्द्ध्वं चतुर्गुणमभिबर्द्धयन्तःपलकुडवप्रस्थाढकद्रोणा इत्यभिनिष्पद्यन्ते इत्युक्ते
२५
६ पलमाने च। अर्द्धर्चादिपाठात् कोपधादन्तत्वेऽपिअस्य पु॰ न॰ लिङ्गता। अस्य परिमाणवाचकत्वात् आढकोव्रीहिरित्यादौ प्रथमायाः परिमाणमर्थः आढकपरिमाणपरिच्छेद्योब्रीहिरित्यादि बोधः। आढकं सम्भवतिअवहरति पचति वा ख टञ् वा। आढकीनः आढ-किकः आढकमितधान्यस्थापने तदवहारके च पात्रे तत्-पाचके सूदादौ त्रि॰ ठञि स्त्रियां ङीप् इति भेदः।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आढकः [āḍhakḥ] कम् [kam], कम् A measure of grain, the 4th of a Droṇa = 64 Prasthas = 16 Kuḍavas = (nearly 7 lbs. 11 ozs. avoir.); अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयो$ष्टौ तु पुष्कलम् । पुष्कलानि च चत्वारि आढकः परिकीर्तितः ॥
की A kind of pulse (Mar. तूर).
A kind of fragrant earth (Mar. गोपीचंदन).
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आढक mn. ( g. अर्धर्चा-दिSee. ; ifc. f( ई). Pa1n2. 4-1 , 22 and v , 1 , 54 Comm. )a measure of grain (= 1/4 द्रोण= 4 प्रस्थs = 16 kudavas = 64 पलs = 256 कर्षs = 4096 माषs ; = nearly 7 lbs. 11 ozs. avoirdupois ; in Bengal = two mans or 164 lbs. avds.)