आढकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आढकः, पुं, क्ली, चतुःप्रस्थपरिमाणं । आडी इति भाषा । इत्यमरः ॥ द्रोणचतुर्थभागः । इति लीलावती ॥ अष्टमुष्टिर्भवेत् कुञ्चिरित्यादिवचनात् षट्पञ्चाशदधिकद्विशतमुष्टिर्भवति । व्यवहारे षो- डशसेरो विंशतिसेरो वा । वैद्यकमते अष्टश- रावपरिमाणं । तत्पर्य्यायः । पात्रं २ कंसं ३ भाजनं ४ । इति परिभाषा ॥ (“चतुःप्रस्थैस्तथाढकं । भाजनं कांस्यपात्रञ्च चतुःषष्टिपलञ्च तत्” ॥ इति शार्ङ्गधरः । “चतुःप्रस्थमयाढकं । “पात्रंतदेव विज्ञेयं कंसंप्रस्थाष्टकन्तथा” ॥ इति चरकः ।) अपचयविवक्षायां आढकिकेत्यपि स्यात् । इत्य- मरटीकासारसुन्दरी ॥ आढिका । इति भरतः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आढकः [āḍhakḥ] कम् [kam], कम् A measure of grain, the 4th of a Droṇa = 64 Prasthas = 16 Kuḍavas = (nearly 7 lbs. 11 ozs. avoir.); अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयो$ष्टौ तु पुष्कलम् । पुष्कलानि च चत्वारि आढकः परिकीर्तितः ॥
की A kind of pulse (Mar. तूर).
A kind of fragrant earth (Mar. गोपीचंदन).
