आढकी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आढकी, स्त्री, शमीधान्यविशेषः । अरहर इति भाषा । तत्पर्य्यायः । तुवरी २ वर्य्या ३ कर वीरभुजा ४ वृत्तवीजा ५ पीतपुष्पा ६ । अस्याः गुणाः । कषायत्वं । मधुरत्वं । कफपित्तनाशि- त्वञ्च । तद्द्विदलगुणाः । ईषद्वातरुचिकारित्वं । गुरुत्वं । ग्राहित्वञ्च । पीता रक्ता सिता त्रिविधेयं । श्वेता दोषदा । लोहिता रुच्या बल्या पित्तता- पादिहन्त्री च । पीता दीपनी पित्तदाहध्वंसिनी च ॥ तद्युषं बल्यं । इति राजनिर्घण्टः ॥ अमर- मते तत्पर्य्यायः । काक्षी २ मृतस्ना ३ तुवरिका ४ मृतालकं ५ सुराष्ट्रजं ६ । भरतमल्लिकमते एतत् षट्कं अरहरस्य । सारसुन्दरीमते तुवरिकाख्य- गन्धद्रव्यस्य । केषाञ्चिन्मते सुगन्धिमृत्तिकायाः ॥ (अस्याः पर्य्यायगुणावाह । “आढकी तुवरी चापि सा प्रोक्ता शणपुष्पिका ॥ आढकी तुवरा रूक्षा मधरा शीतला लघुः । ग्राहिणी वातजननी वर्ण्या पित्तकफास्रजित्” ॥ इति भावप्रकाशः ॥ “मृदुः कषाया च सरक्तपित्तं निहन्ति कासानतिवातला स्यात् । गुल्मज्वरारोचककासछर्द्दि- हृद्रोगदुर्नामहराढकी स्यात्” ॥ इति हारीतः ॥ “आढकी कफपित्तघ्नी वातला,” । इति चरकः ॥ “आढकी कफपित्तघ्नी नातिवातप्रकोपनी” । इति सुश्रुतः ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आढकी स्त्री।
तुवरिका
समानार्थक:आढकी,काक्षी,मृत्स्ना,तुवरिका,मृत्तालक,सुराष्ट्रज
2।4।130।2।6
धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी। शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आढकी¦ स्त्री आढौकते अच् पृषो॰ गौ॰ ङीष्। (अरहर)इति ख्याते शमीधान्यभेदे।
“आढकी तुवरी रूक्षा मधुराशीतला लघुः ग्राहिणी वातजननी वर्ण्या पित्तकफास्र-जित्” भावप्र॰ फले अस्य पुस्त्वमपि
“आढकांश्च मसूरांश्चकोद्रवान् लवणं त्यजेत्” काशी॰ ख॰ वैश्वदेवे वर्जने।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आढकी f. the pulse Cajanus Indicus Spreng. Sus3r.
आढकी f. a kind of fragrant earth Bhpr.