आतङ्कः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आतङ्कः, पुं, (आङ् + तकि + घञ् ।) रोगः । (यथा, याज्ञवल्क्यः, -- “दृष्ट्वा पथि निरातङ्कं कृत्वा वा ब्रह्महा शुचिः” ॥) सन्तापः । शङ्का । (यथा, महावीरचरिते, -- “आतङ्कश्रमसाहसव्यतिकरोत्कम्पःक्षणंसह्यतां” ।) मुरजध्वनिः । इति मेदिनीकरहेमचन्द्रौ ॥ ज्वरः । इति राजनिर्घण्टः ॥ (“नानातन्त्रविहीनानां भिषजामल्पमेधसां । सुस्वं विज्ञातुमातङ्कमयमेव भविष्यति” ॥ इति माधवकरः ॥ रोगार्थे उदाहरणं यथा सुश्रुते । “प्रश्नेन च विजानीयात् देशं कालं जातिं सात्म्य- मातङ्कसमुत्पत्तिं वेदनासमुच्छ्रायं बलमित्यादि” ॥ ज्वरार्थे पर्य्यायानाह । “ज्वरो विकारो रोगश्च व्याधिरातङ्क एव च । एकार्थनामपर्य्यायैर्विविधैरभिधीयते” ॥ इति चरकः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आतङ्कः [ātaṅkḥ], [आ-तञ्च्-घञ्-कुत्वम्]
Disease, sickness of the body; दीर्घतीव्रामयग्रस्तं ब्राह्मणं गामथापि वा । दृष्ट्वा पथि निरातङ्कं कृत्वा वा ब्रह्महा शुचिः ॥ Y.3.245.
Fever.
Pain, affliction (of the mind), disquietude; anguish, agony; किन्निमित्तोयमातङ्कः; आतङ्कस्फूरितकठोरगर्भगुर्वीम् U.1.49; Ś.3; V.3.
Doubt, uncertainty.
Fear, apprehension; पुरुषायुषजीविन्यो निरातङ्का निरीतयः R.1.63; fright, terror; दत्तातङ्को$ङ्गनानाम् Ratn.2.2.
The sound of a drum or tabor. -कम् The constellation भरणी; Gīrvāṇa.
