सामग्री पर जाएँ

आतपः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आतपः, पुं, (आङ् + तप + अच् ।) रौद्रं । तत्पर्य्यायः । प्रकाशः २ द्योतः ३ । इत्य- मरः ॥ दिनज्योतिः ४ सूर्य्यालोकः ५ दिनप्रभा ६ रविप्रकाशः ७ प्रद्योतः ८ तमारिः ९ तापनः १० द्युतिः ११ । अस्य गुणाः । कटुत्वं । रूक्षत्वं स्वदमूर्च्छातृष्णादाहवैवर्ण्यजनकत्वं । नेत्ररोगप्रको- पनत्वञ्च ॥ इति राजनिर्घण्टः ॥ (“आतपः कटुको रुक्षः स्वेदमच्छातृषावहः । दाहवैवर्ण्यजननो नेत्ररोगप्रक्रोपनः” ॥ “आतपः पित्ततृष्णाग्निस्वेदमूर्च्छाभ्रमास्रकृत् । दाहवैवर्ण्यकारी च” इति सुश्रुतः ॥ यथा शाकुन्तले, -- “कथमातपे गमिष्यसि परिवाधाकोमलैरङ्गैः” ॥ यथा ऋतुसंहारे, ११ । -- “मृगाः प्रचण्डातपतापिता भृशम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=आतपः&oldid=115319" इत्यस्माद् प्रतिप्राप्तम्