आतिथेयः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आतिथेयः, त्रि, (अतिथि + ढञ् । अतिथौ साधुः ।) अतिथिसेवाकारकः । इत्यमरः ॥ (यथारघुवंशे, ५ । २ “प्रत्युज्जगामातिथिमातिथेयः ॥ यथा कुमारसम्भवे, ५ । ३१ । “तमातिथेयी बहुमानपूर्ब्बया सपर्थ्यया” । यथा मनुः, ३ । १८ । “दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु” ।
