सामग्री पर जाएँ

आतुरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आतुरः, त्रि, (आङ् + तुर + क) रोगी । तत्पर्य्यायः । आमयावी २ विकृतः ३ व्याधितः ४ अपटुः ५ अभ्यमितः ६ अभ्यन्तः ७ । इत्यमरः ॥ (यथा हितो- पदेशे । वैद्यानामातुरः श्रेयान् । यथा मनुः, ४ । १२९ । “न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि” ॥ आतुरावस्थास्वपि कार्य्याकार्य्यं प्रति कालाकाल- संज्ञा । तद्यथा -- अस्यामवस्थायामस्य भेषजस्य कालोऽकालः पुनरस्येति । एतदपि भवत्यवस्था- विशेषेण तस्मादातुरावस्थास्वपि हि कालाकाल- संज्ञा । तस्य परीक्षा मुहुर्म्मुहुरातुरस्य सर्व्वा- वस्थाविशेषावेक्षणं यथावद्भेषजप्रयोगार्थं । न ह्यतिपतितकालमप्राप्तकालं वा भेषजमुपयुज्य- मानं यौगिकं भवति । कालोहि भैषज्ययोग- पर्य्याप्तिमभिनिर्व्वर्त्तयति ॥ इति चरकः ॥ आतुरमुपक्रममाणेन भिषजायुरेवादौ परीक्ष्येत । इति सुश्रुतः ॥)

"https://sa.wiktionary.org/w/index.php?title=आतुरः&oldid=115348" इत्यस्माद् प्रतिप्राप्तम्