सामग्री पर जाएँ

आत्मघातिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आत्मघाती, [न्] त्रि, (आत्मन् + हन् + णिन् ।) आत्महन्ता । यथा कूर्म्मपुराणे ॥ “व्यापादयेद्वृथात्मानं स्वयं योऽग्न्युदकादिभिः । विहितं तस्य नाशौचं नाग्निर्नाप्युदकादिकं” ॥ आत्महननकर्त्ता । अवैधबुद्धिपूर्ब्बकात्महननस्य प्रायश्चित्तं यथा, -- “इन्द्रियैरपरित्यक्ता ये च मूढा विषादिनः । विष्णोरभ्यर्च्चनं कृत्वा विप्रांस्तानुपवेशयेत् । उदङ्मुखान् यथाज्येष्ठं पितृरूपमनुस्मरन् ॥ मनो निवेश्य विष्णौ वै सर्व्वं कुर्य्यादतन्द्रितः । आवाहनादि यत् प्रोक्तं दैवपूर्ब्बं तदाचरेत् ॥ तृप्तान् ज्ञात्वा ततो विप्रस्तृप्तिं पृष्ट्वा यथाविधि । हविष्यव्यञ्जनेनैव तिलादिसहितेन च ॥ पञ्च पिण्डान् प्रदद्याच्च दैवरूपमनुस्मरन् । प्रथमं विष्णवे दद्यात् ब्रह्मणे च शिवाय च ॥ यमाय सानुसाराय चतुर्थं पिण्डमुत्सृजेत् । मृतं संकीर्त्य मनसा गोत्रपूर्ब्बमतःपरं ॥ विष्णोर्नाम गृहीत्ववं पञ्चमं पूर्ब्बवत् क्षिपेत् । विप्रानाचम्य विधिवत् दक्षिणाभिः समर्च्चयेत् ॥ एकं वृद्धतमं विप्रं हिरण्येन समर्च्चयेत् । गवा वस्त्रेण भूम्या च प्रेतं तं मनसा स्मरेत् ॥ ततस्तिलाम्भो विप्रास्तु हस्तैर्द्दर्भसमन्वितैः । क्षिपेयुर्गोत्रपूर्ब्बन्तु नाम बुद्धौ निवेश्य च ॥ हविर्गन्धतिलाम्भस्तु तस्मै दद्युः समाहिताः । मित्रभृत्यजनैः सार्द्धं पश्चाद्भुञ्जीत वाग्यतः” ॥ भविष्यपुराणे । “सुवर्णतारनिष्पन्नं नागं कृत्वा तथैव गां । व्यासाय दत्त्वा विधिवत् पितुरानृण्यमाप्तवान्” ॥ इति मदनपारिजाते ५ स्तवकः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आत्मघातिन्¦ त्रि॰ आत्मानं देहं हन्ति हन्--णिनि

६ त॰।
“व्यापादयेत् वृथात्मानं स्वयं योऽग्न्युदकादिभिः। अवैधेनैव मार्गेण आत्मघाती स उच्यते” इत्युक्तलक्षणेआत्मनः स्वशरीरस्य प्राणेन सह वियोजयितरि जनेआत्मघातश्च द्विविधः वैधोऽवैधश्च अवैधोऽपि द्विविधःज्ञानपूर्ब्बकस्तदपूर्ब्बकश्च। तत्र वैधात्मघाते न दोषःतदाहतुः मनुवृद्धगर्गौ
“वृद्धः शौचमृते लुप्तः प्रत्या-ख्यातभिषक्क्रियः। आत्मानं घातयेद्यस्तु भृग्वग्न्य-नशनाम्बुभिः। तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिस-ञ्चयः। तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमाचरेत्” हेमाद्रौ अवैधात्मघातनिन्दनेन तत्राधिकारिणमाहविष्णुध॰।
“नरस्तु व्याधिरहितो न त्यजेदात्मनस्तनुम्असूर्य्या नाम ते लोका अन्धेन तमसावृताः। तांस्ते प्रत्यभिगच्छन्ति ये के चात्महनोजनाः। अरिष्टैरात्मनोज्ञात्वामृत्यु-कालमुपस्थितम्। व्याधितोभिषजा त्यक्तः पूर्ण्णेचायुषि चा-त्मनः। यथायुगानुसारेण संत्यजेदात्मनस्तनुम्। तस्मिन् कालेतनुंत्यक्त्वा यथेष्टफलमाप्नुयात्” अपरार्के ब्रह्मगर्भः
“योजीवितुं न शक्नोति महाब्याध्युपपीडितः। सोऽग्न्युदकं र्महा-यात्रां कुर्व्वन्नपि न दुष्यति”। तेन प्रयागाद्यतिरिक्तेऽपि अचि-कित्सरोगादीनामधिकारः। एतच्च वानप्रस्थस्यैवेति विज्ञा-नेश्वरादयः।
“आसां महर्षिचर्य्याणां त्यक्त्वाऽन्यतमया तनुम्। वीतशोकभयो विप्रो ब्रह्मभूयाय कल्पते” इति मनुना वान-प्रस्थस्यैव मरणाधिकारप्रतिपादनात्। गृहस्थस्याप्यधिकारइति निर्णयसिन्धुः। प्रयागाद्यतिरिक्ते विप्रस्य तु नाधिकारः
“शूद्राश्च क्षत्रिया वैश्या अन्त्यजातास्तथाधमाः। एतेत्यजेषुः प्राणान् वै वर्ज्जयित्वा द्विजं नृप! पतित्वाब्राह्मणस्तव ब्रह्महा चात्मघातकृत्” तद्धृत वचनात् अब्रा-ह्मणोवै स्वर्गादि महाफलजिगीषया। प्रविशेजज्वलनंतोयं करोत्यनशनं तथेति” आदित्य पु॰ वाक्याच्च। तत्र प्रयागादिषु सर्व्वे वर्ण्णा वैधात्मघाताधिकारिणः यथा
“दुश्चिकित्स्येर्महारोगैः पीडितस्तु पुमानपि। प्रवि-शेज्ज्वलनं दीप्तं करोत्यनशनं तथा अगाधतोयराशिंच भृगोः पतनमेव च। गच्छेन्महापथं वापि तुषारगिरि-मादरात्। प्रयागवटशाखायां देहत्यागं करोति च। स्वयं-देहविनाशञ्च काले प्राप्ते महामतिः। उत्तमान् प्राप्नु-याल्लोकान्नात्मघाती भवेत् क्वचित्। महापापक्षयात् स्वर्गेदिव्यान् भोगान् समश्नुते। एतस्मिन्नधिकारस्तु सर्वेषां सर्व-जन्तुषु। नराणामथ नारीणां सर्ववर्ण्णेषु सर्वथा। ईदृशं मरण[Page0661-a+ 38] येषां जीवानां कुत्रचिद्भवेत्। अशौचं तुत्र्यहं तेषां वज्रा-नलहतेषु च” आदि॰ पु॰
“वाराणस्यां म्रियते यः प्रत्या-ख्यातभिषक्क्रियः काष्ठपाषाणमध्यस्थो जाह्नवीजलमध्यगः। अविमुक्तोन्मुखस्तस्य कर्णमूलगतोहरः। प्रणवं तारकं ब्रूतेनान्यथा कुत्रचित् क्वचित्” मात्से, भारते च” न लोकवच-नात्तात! न वेदवचनादपि मतिरुत्क्रमणीया ते प्रयागमरणंप्रति” अतएव विष्णुधर्मे रोग्यादिमरणमुक्त्वोक्तम्
“यथायुगा-नुसारेण संत्यजेदात्मनस्तनुमिति” प्रयागादौ विशेषःत्रिस्थलीसेतौ स्कान्दे
“यथा कथचित्तीर्थेऽस्मिन् प्राणत्यागंकरोति यः। तस्यात्मघातदोषो न प्राप्नुयादोप्सिता-न्यपि। पाद्मेविष्णुः
“देहत्यागं तथा धीराः कुर्वन्ति ममसन्तिधौ। मत्तनुं प्रविशन्त्येव न पुनर्जन्मने नराः” कौर्मेः व्या-धितो यदि वा दीनः क्रुद्धोवापि भवेन्नरः। गङ्गायमुनमासाद्ययस्तु प्राणान् परित्यजेत् ईप्सितान् लभते कामान्वदन्तिमुनिपुङ्गवाः” तथा
“या गतिर्योगयुक्तस्य सत्वस्थस्य मनी-षिणः। सा गतिस्त्यजतः प्राणान् गङ्गायमुनसंगमे”। वाराहे
“तत्र योमुञ्चति प्राणान् वटमूलेषुसुन्दरि! सर्वलोकानतिक्र-म्य मम लोकं प्रपद्यते”। तथा
“अकामोवासकामो वा वट-मूलेषु सुन्दरि! शीघ्रं प्राणान्प्रमुञ्चेत यदीच्छेत्परमां गतिम्” तथा
“पञ्चयोजनविस्तीर्णे प्रयागस्य तु मण्डले। व्यतीतान्पुरुषान् सप्त भविष्यांश्च चतुर्दश। नरस्तारयते सर्वान् यस्तुप्राणान्परित्यजेत्” ब्राह्मे
“ध्यात्वा विष्णुपदाम्भोजं प्रयागेविष्णुतत्परः तनुन्त्यजति वै माघे तस्य मुक्तिर्न संशयः। दुष्कृतोऽपि दुराचारो ब्रह्महत्यादिपातकी। हरिंध्यात्वा त्यजेद्देहं प्रायशो मुक्तिभाग्भवेत्” भविष्यो-त्तरे
“समाः सहस्राणि तु सप्त वै जले दशैकमग्नौपतने च षोडश। महाहवे षष्टिरशीति गोग्रहे अनाशनेभारत! चाक्षया गतिः अग्निप्रवेशं ये कुर्युरविमुक्तेविधानतः प्रविशन्ति मुखन्ते मे निःसंदिग्धं वरानने!इति सामान्यतोऽपि फलमुक्तम् एवमन्येऽपि विघयोज्ञेयाः। एवं विहित मरणं तु कलौ निषिद्धमेव
“भृग्वग्निमरणंचैव वृद्धादिमरणं तथेति माधवीये कलिवर्ज्ज्येषूक्तेःयत्तुगौडाः प्रयागादिमरणं ब्राह्मणभिन्नयिषयमित्याहु-स्तत् त्रिस्थलीसेतुकृता दूषितं प्रागुक्तवचनात्
“सर्वेन्द्रियवियुक्तस्य स्वव्यापाराक्षमस्य च प्रायश्चित्त-मनुज्ञातमग्निपातो महापथः। धर्मार्जनासमर्थस्य कर्त्तुः-पापाङ्कितस्य च। ब्राह्मणस्याप्यनुज्ञातं तीर्थे प्राणविमो-क्षणमिति” हेमाद्रौ विवस्वदुक्तेश्च अपरार्के चैवमेव। सहगमनं[Page0661-b+ 38] कलौ भवत्येव
“कलौ नान्या गतिः स्त्रीणां सहानुगमनादृतइति ब्रह्मवैवर्त्तात् एतेन मरणान्तिकप्रायश्चित्तमपिव्याख्यातम् काशीखण्डादौ चातुर्वर्ण्यस्य तनुत्यागविधयश्चयुगान्तरपरा एवं प्रयागेऽपि। अवैघात्मघाते तु
“आत्मघातिनमुपक्रम्य” विहितं तस्य नाशौचं नाग्निर्ना-प्युदकक्रियेति कू॰ पु॰ वचनात् नाशौचादि। तस्य चक्रियाकरणे चान्द्रायणद्वयसहितं वर्ण्णिबधप्रायश्चित्तंनारायणबलिं च कृत्वा वत्सरादूर्द्धं क्रिया कर्त्तुं शक्यते। वत्सरान्ते तु सर्बमौर्ध्वदेहिकंकुर्य्यात् इति हेमाद्रिप्रभृतयः।
“गोब्राह्महतानाञ्च पतितानां तथैव च। ऊर्द्धं संव-त्स्वरात् कुर्य्यात्सर्वमेवौर्ध्वदेहिकमिति हेमाद्रौ षट्-विंशन्मतात्, ब्राह्मे
“क्रियते पतितानान्तु गते संवत्सरेक्वचित् देशधर्मप्रमाणत्वाद्गयाकूपे स्वबन्धुभिः मार्तण्डपा-दमूले वा श्राद्धं हरिहरौ स्मरन्” सूर्यपद इत्यर्थःतत्र वर्षमध्येऽपि कृत्यमुक्तमपरार्के वायुपुराणे
“शुक्ल-पक्षे तु द्वादश्यां कुर्य्यात् श्राद्धन्तु वत्सरे। द्वादशा-हनि वा कुर्याच्छुक्ले च प्रथमेऽहनि” छागलेयः
“नारायणबलिः कार्योलोकगर्हाभयान्नरैः। तथा तेषां भवेच्छौचंनान्यथेत्यब्रवीद्यमः” व्यासः
“नारायणं समुद्दिश्य शिवं वायत्प्रदीयते। तस्यशुद्धिकरं कर्म तद्भवेन्नैतदन्यथेति” सचात्म-घातादिप्रायश्चित्तं कृत्वा कार्यः तदुक्तं हेमाद्रौ षट्त्रिंश-शन्मते
“कृत्वा चान्द्रयणं पूर्व्वं क्रिया कार्या यथाविधि। नारायणबलिः कार्य्योलोकगर्हाभयान्नरैः। पिण्डो-दकक्रियाः पश्चादृषोत्सर्गादिकं च यत्। एकोद्दिष्टानिकुर्व्वीत सपिण्डीकरणं तथा। इन्द्रियैरपरित्यक्ताये च मूढा-विषादिनः। घातयन्ति स्वमात्मानञ्चाण्डालादिहताश्च ये। तेषां पुत्राश्च पौत्राश्च दयया समभिप्लुताः यथा आद्धंप्रतन्वन्ति विष्णुनामप्रतिष्ठितम् तथा ते संप्रवक्ष्यामि नम-स्कृत्य स्वयम्भुवम्” इति हेमाद्रौ तेनैवोक्तेश्च तत्रैव बौधायनोऽपि
“अथ नारायणबलिं व्यख्यास्यामोऽभिशस्तपतितसु-रापात्मत्यागिनां ब्राह्मणहतानाञ्च द्वादशवर्षाणि त्रीणि-वा कुर्वीतेति” गृह्यपरिशिष्टे तु चण्डालादीत्याद्युक्त्वा
“दग्ध्वा शरीरं प्रेतस्य संस्थाप्यास्थीनि यत्नतः। प्रायश्चित्तंतु कर्त्तव्यं पुत्रैश्चान्द्रायणत्रयमित्युक्तम्। प्रमादमरणे तु न-दोषः मदनरत्ने ब्राह्मे
“प्रमादादपि निःशङ्कस्त्वकस्माद्वि-धिचोदितः चाण्डालैर्ब्राह्मणैश्चौरैर्निहतोयत्र पुत्रचित्। तस्य दाहादिकं कार्य्यं यस्मान्न पतितस्त सः। चान्दायर्णतप्तकृच्छ्रद्वयं तस्य विशुद्धये। यद्वा कृच्छान पञ्चदश कृत्वा[Page0662-a+ 38] तु विधिना दहेत्
“बुद्धिपूर्व्वमृतानां तु त्रिंशल्कृच्छ्रंसमाचरेदित्युक्तम्” स्मृतिरत्नावल्यां तु द्विगुणं प्रायश्चित्तंकृत्वार्वागप्यब्दात्सर्वं कार्यमित्युक्तम् आत्मनोघातशुद्व्यर्थचरेच्चान्द्रायणद्वयं तप्तकृच्छ्रचतुष्कञ्च त्रिंशत्कृच्छ्राणिवा पुनः। अर्वाक् संवत्सरात्कुर्य्याद्दहनादि यथोदितम्कृत्वा नारायणबलिमनित्यत्वात्तदायुष इति” इदञ्चात्मब-धनिमित्तं तत्तज्जातिबधप्रायश्चित्तेन समुच्चितं का-र्य्यम्। प्रमादमरणे तु
“अथ कश्चित् प्रमादेन म्रियेताग्न्यु-दकादिभिः तस्याशौचं विधातव्यं कर्तव्या चोदकक्रिया” इत्युक्तेः सर्वं कार्य्यं तत्र तु
“तोयाग्निनृपगोविप्रैरन्वक्षञ्चा-त्मघातिनाम्” याज्ञवल्क्येन सद्यःशौचं विहितं प्रा-गुक्तवचने त्र्यहाशौचमिति तत्र त्र्यहाशौचसद्यः शौचयो-र्विकल्पैति भेदः। त्र्यहाशौचमिति रघुनन्दनादयः। सद्यःशौचमिति मिताक्षरा। ण्वुल् आत्मघातकोऽप्यत्र त्रि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आत्मघातिन्¦ mfn. (-ती-तिनी-ति)
1. A suicide.
2. A heretic, a schismatic, one who disregards the moral or religious institutions of the code. E. आत्मन् and घातिन् who kills.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आत्मघातिन्/ आत्म--घातिन् m. id. Ya1jn5. iii , 21 Ka1d.

"https://sa.wiktionary.org/w/index.php?title=आत्मघातिन्&oldid=215528" इत्यस्माद् प्रतिप्राप्तम्