आत्मतत्त्वम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आत्मतत्त्वम्, क्ली, (आत्मनः तत्वं स्वरूपम् ।) तत्तद्भा- सकं नित्यशुद्धबुद्धमुक्तसत्यस्वभावं प्रत्यक्चैतन्यमे- वात्मतत्त्वं । पुत्रादिभासकं नित्यशुद्धत्वादिस्वरूप- मेवात्मवस्त्विति यावत् । एतद्विवरणं यथा । “इदानीं प्रत्यगात्मनि इदमिदमयमयमारोपय- तीति विशेष उच्यते । तथाच । अतिप्राकृतस्तु आत्मा वै जायते पुत्र इत्यादि श्रुतेः स्वस्मिन्निव स्वपुत्त्रेऽपि प्रेमदर्शनात् पुत्त्रे पुष्टे नष्टेऽहमेव पुष्टो नष्टश्चेत्याद्यनुभवाच्च पुत्त्र आत्मेति वदति ॥ १ ॥ चार्व्वाकस्तु स वा एष पुरुषोऽन्नरसमय इत्यादि श्रुतेः प्रदीप्तगृहात् स्वपुत्त्रं परित्यज्यापि स्वस्य निर्गमदर्शनात् स्थूलोऽहं कृशोऽहं इत्याद्य- नुभवाच्च स्थूलशरीरमात्मेति वदति ॥ २ ॥ अप- रश्चार्व्वाकः तेऽप्राणाः प्रजाप्रतिं समेत्य ब्रूयु रित्यादिश्रुतेः इन्द्रियाणामभावे शरीरचलना- भावात् काणोऽहं वधिरोऽहं इत्याद्यनुभवाच्च इन्द्रियाण्यात्मेति वदति ॥ ३ ॥ अन्यस्तु चार्व्वाकः अन्योऽन्तर आत्मा प्राणमय इत्यादिश्रुतेः प्राणा- भावे इन्द्रियचलनायोगात् अहमशनायावानहं पिपासावान् इत्याद्यनुभवाच्च प्राण आत्मेति वदति ॥ ४ ॥ इतरस्तु चार्व्वाकः अन्योऽन्तर आत्मा मनोमय इत्यादिश्रुतेः मनसि सुप्ते प्राणादेर- भावात् अहं सङ्कल्पवानहं विकल्पवानित्याद्यनु- भवाच्च मन आत्मेति वदति ॥ ५ ॥ बौद्धस्तु अन्यो ऽन्तर आत्मा विज्ञानमय इत्यादिश्रुतेः कर्त्तुरमावे करणस्य शक्त्यभावात् अहं कर्त्ताहं भोक्ता इत्या- द्यनुभवाच्च बुद्धिरात्मेति वदति ॥ ६ ॥ प्राभाकर- तार्किकौ तु अन्योऽन्तर आत्मा आनन्दमय इत्यादिश्रतेः सुषुप्तौ बुद्ध्यादीनामज्ञाने लयदर्श- नात् अहमज्ञोऽहं ज्ञानीत्याद्यनुभवाच्च अज्ञान- मात्मेति वदतः ॥ ७ ॥ भट्टस्तु प्रज्ञानघन एवानन्द- मय आत्मेत्यादिश्रुतेः सुषुप्तौ प्रकाशाप्रकाशसद्- भावात् मामहं न जानामि इत्याद्यनुभवाच्च अज्ञा- नोपहितं चैतन्यमात्मेति वदति ॥ ८ ॥ अपरबौद्धः असदेवेदमग्र आसीदित्यादिश्रुतेः सुषुप्तौ सर्व्वा- भावादहं सुप्तः सुषुप्तौ नासमित्युत्थितस्य स्वाभाव- परामर्शविषयानुभवाच्च शून्यमात्मेति वदति ॥ ९ ॥ एतेषां पुत्त्रादीनां शून्यपर्य्यन्तानामनात्मत्व- मुच्यते । एतैरतिप्राकृतादिवादिभिरुक्तेषु श्रुति- युक्त्यनुभवाभासेषु पूर्ब्बपूर्ब्बोक्तश्रुतियुक्त्यनुभवाभासा- नामुत्तरोत्तरश्रुतियुक्त्यानुभवाभासैरात्मबाधदर्श -- नात् पुत्त्रादीनामनात्मत्वं स्पष्टमेवेति ॥ * ॥ किञ्च प्रत्यगस्थूलोऽचक्षुरप्राणोऽमना अकर्त्ता चैतन्यं चिन्मात्रं सदित्यादिप्रबलश्रुतिविरोधात् अस्य पुत्त्रादिशून्यपर्य्यन्तस्य जडस्य चैतन्यभास्यत्वेन घटादिवदनित्यत्वात् अहं ब्रह्मेति विद्वदनुभव प्राबल्याच्च तत्तच्छ्रुतियुक्त्यनभवाभासानां बाधित- त्वादपि पुत्त्रादिशून्यपर्य्यन्तमखिलमनात्मैव । अत- स्तत्तद्भासकं नित्यशुद्धबुद्धमुक्तसत्यस्वभावं प्रत्यक्- चैतन्यनेवात्मतत्त्वमिति वेदान्तविदनुभवः” । इति वेदान्तसारः (५० -- ५८) ।
