सामग्री पर जाएँ

आत्महा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आत्महा, [न्] पुं, (आत्मन् + हन् + क्विप् ।) देवलः । इति शब्दरत्नावली ॥ आत्मघाती । “नृदेहमाद्यं सुलमं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारं । मया- नुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स आत्महा” ॥ इति श्रीभागवतं ॥ (अपरञ्च यथा, “लब्धा कथञ्चित् नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनं । यस्त्वात्ममुक्त्यै न यतेत मूढधीः स आत्महा स्वं विनिहन्त्यसद्ग्रहात्” ॥)

"https://sa.wiktionary.org/w/index.php?title=आत्महा&oldid=115390" इत्यस्माद् प्रतिप्राप्तम्