आत्माश्रय
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आत्माश्रयः, पुं, (आत्मा आश्रयो यस्य सः ।) तर्क- विशेषः । तस्य लक्षणं । स्वापेक्षापादकप्रसङ्गत्वं । अपेक्षा च ज्ञाप्तौ उत्पत्तौ स्थितौ च ग्राह्या । तत्र्याद्या यथा । एतद्घटज्ञानं यद्येतद्घटज्ञानजन्यं स्यात् एतद्घटज्ञानभिन्नं स्यात् । द्वितीया तु घटो- ऽयं यद्येतद्घटजनकः स्यात् एतद्घटभिन्नः स्यात् । तृतीया च अयं घटो यद्येतद्घटवृत्तिः स्यात् तथात्वेनोपलभ्येत इति ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आत्माश्रय¦ पु॰ आत्मानमाश्रयति आ + श्रि--अच्
६ त॰।
१ स्वस्यस्यापेक्षित्वहेतुकानिष्टप्रसङ्गरूपे तर्कदोषभेदे। तर्कः पञ्चविधःतर्कशब्दे वक्ष्यते तत्र
“स्वस्य स्वापेक्षित्वेऽनिष्टप्रसङ्ग आत्माश्रयःस च उत्पत्तिस्थितिज्ञप्तिद्वारा त्रेधा यथा यद्ययं घटएत-द्बटजन्यः स्यात्तदैतद्बटानधिकरणक्षणोत्तरवर्त्ती न स्यात्,यद्ययं घटएतद्बटवृत्तिः स्यात् एतद्वटव्याप्योन स्यात्, यद्ययंघटएतद्घटज्ञानाभिन्नः स्यात् ज्ञानसामग्रीजन्यः स्यात्एतद्वटभिन्नः स्यादिति वा सर्ब्बत्रापाद्यम्” न्यायसूत्रवृत्तिः।
२ स्वाश्रिते
३ चित्ताश्रिते च त्रि॰
६ त॰।
४ स्वस्याश्रये पु॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आत्माश्रय¦ m. (-यः)
1. Self-dependance.
2. Innate idea, abstract knowledge, independent of the thing to be known. E. आत्मन् self, and आश्रय asylum.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आत्माश्रय/ आत्मा m. dependance , on self or on the supreme spirit