सामग्री पर जाएँ

आत्माश्रयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आत्माश्रयः, पुं, (आत्मा आश्रयो यस्य सः ।) तर्क- विशेषः । तस्य लक्षणं । स्वापेक्षापादकप्रसङ्गत्वं । अपेक्षा च ज्ञाप्तौ उत्पत्तौ स्थितौ च ग्राह्या । तत्र्याद्या यथा । एतद्घटज्ञानं यद्येतद्घटज्ञानजन्यं स्यात् एतद्घटज्ञानभिन्नं स्यात् । द्वितीया तु घटो- ऽयं यद्येतद्घटजनकः स्यात् एतद्घटभिन्नः स्यात् । तृतीया च अयं घटो यद्येतद्घटवृत्तिः स्यात् तथात्वेनोपलभ्येत इति ॥

"https://sa.wiktionary.org/w/index.php?title=आत्माश्रयः&oldid=115397" इत्यस्माद् प्रतिप्राप्तम्