सामग्री पर जाएँ

आद्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आद्यः, त्रि, (आदौ भवः दिगादिभ्यो यत् यद्वा अद्यते यः अद् कर्म्मणि ण्यत् ।) प्रथमः । इत्यमरः ॥ (यथा महाभारते, -- “तोषितोऽहं नृपश्रेष्ठ त्वयेहाद्येन कर्म्मणा” । रघुवंशे, १ । ११ । “आसीत् महीक्षितामाद्यः प्रणवश्छन्दसामिव” ।) भक्ष्यः । यथा मनुः ५ । २६ । “पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः” ।

"https://sa.wiktionary.org/w/index.php?title=आद्यः&oldid=115462" इत्यस्माद् प्रतिप्राप्तम्