आद्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आद्यम्, क्ली, (अद्यते यत् अद् कर्म्मणि ण्यत् ।) धान्यं । इति राजनिर्घण्टः ॥ अदनीयद्रव्ये त्रि ॥ (यथा -- मनुः, ५ । २४ । “तत्पर्य्युषितमप्याद्यं हविः शेषञ्च यद्भवेत् । चिरस्थितमपित्वाद्यं” -- इत्यादि ।)
