सामग्री पर जाएँ

आधिदैविकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आधिदैविकम्, त्रि, (अधि + देव + ठञ् । अनु- शतिकादीनां च इत्युपभयपदवृद्धिः ।) दुःखविशेषः । तद्यथा, । “आधिदैविकं यक्षराक्षसविनायकग्र- हाद्यावेशनिबन्धनं” । इति साङ्ख्यसत्त्वकौमुदी ॥ (देवतामधिकृत्य, प्रवृत्तं, दाहशीतादिजनितं दुःखं । अतिवातादिवृष्ट्यादिहेतुकं दुःखं । देवतामधि- कृत्य प्रवृत्तं शास्त्रम् । यथा मनुः ६ । ८३ । “अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च । आध्यात्मिकञ्च सततं वेदान्ताभिहितञ्च यत्” ॥ “तत्तु सप्तविधे व्याधावुपनिपतति” इति सुश्रुतः ।)

"https://sa.wiktionary.org/w/index.php?title=आधिदैविकम्&oldid=115491" इत्यस्माद् प्रतिप्राप्तम्