सामग्री पर जाएँ

आध्मानम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आध्मानम्, क्ली, (आङ् + ध्मा + ल्युट् ।) वातव्याधि- विशेषः । तस्य रूपं । “साटोपमत्युग्ररुजमाध्मातमुदरं भृशं । आध्मानमिति जानीयाद्घोरं वातनिरोधजं” ॥ इति निदानं ॥ पेटफा~पा इति भाषा । तस्य चिकित्सा यथा, -- “आध्माने लङ्घनं पूर्ब्बं दीपनं पाचनं ततः । फलवर्त्तिक्रियां कुर्य्यात् वस्तिकर्म्म च शोधनं ॥ कर्षमात्रा भवेत् कृष्णा त्रिवृता स्यात् पलोन्मिता । खण्डादपि पलं ग्राह्यं चूर्णमेकत्र कारयेत् ॥ भधुनाक्षमितं लिह्यातं चूर्णमाध्माननाशनं” ॥ नारायणचूर्णं ॥ १ ॥ “दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः । लिम्पेब् कोष्णैरम्लपिष्टैः शूलाध्मानयुतोदरं ॥ हैमवती वचा । दारुषट्कलेपः ॥ २ ॥ “अभयारग्वधो धात्री दन्ती तिक्ता स्नुही त्रिवृत् । मुस्ता प्रत्येकमेतानि ग्राह्याणि पलमात्रया ॥ तानि संक्षुद्य सर्व्वाणि जलाढकयुगे पचेत् । तत्र तोयेऽष्टमं भागं कषायमवशेषयेत् ॥ निस्त्वग्जैपालवीजानि नवानि पलमात्रया । तनुवस्त्रधृतान्येव तस्मिन् क्वाथे शनैः पचेत् ॥ ज्वालयेदनलं मन्दं यावत् क्वाथो घनो भवेत् । ततः खल्ले क्षिपेत् भागानष्टौ जैपालबीजतः ॥ भागांस्त्रीन् नागराद्द्वौ च मरिचात् द्वौ च पारदात् । गन्धकात् द्वौ च तानीह यावद्यामं विमर्दयेत् ॥ रसो नाराचनामायं भक्षितो रक्तिकामितः । जलेन शीतलेनैव रोगानेतान् विनाशयेत् ॥ आध्मानं शूलमानाहं प्रत्याध्मानं तथैव च । उदावर्त्तं तथागुल्भमुदराणि हरत्यसौ ॥ वेगे शान्ते च भुञ्जीत शर्करासहितं दधि । ततस्तत्सैन्धवेनापि ततो दध्योदनं मनाक्” ॥ महानाराचो रसः ॥ ३ ॥ इति भावप्रकाशः ॥ (वायुना सवेदनमुदरपरिपूर्णत्वमाध्मानत्वं । इति रुग्विनिश्चयग्रन्थव्याख्यानकृद्विजयरक्षितः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आध्मानम् [ādhmānam], [आ-ध्मा-ल्युट्]

Blowing inflation; (fig.) growth, increase; अयं विन्ध्यो येनाहृतविहृतिराध्मानमजहात् Mv.7.14.

Boasting, vaunting.

A bellows.

Intumescence, swelling of the belly, body &c., dropsy.

नी A kind of fragrant substance.

A blow-pipe.

"https://sa.wiktionary.org/w/index.php?title=आध्मानम्&oldid=216139" इत्यस्माद् प्रतिप्राप्तम्