सामग्री पर जाएँ

आध्यात्मिकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आध्यात्मिकम्, त्रि, (आत्मानमधिकृत्य भवं अधि + आत्मन् + ठञ् ।) दुःखविशेषः । यथा । दुःखानां त्रयं दुःखत्रयं तत् खल्वाध्यात्मिकं चाधिभौतिकं चाधिदैविकञ्च । तत्राध्यात्मिकं द्विविधं शारीरं मानसञ्च । शारीरं वातपित्तश्लेष्मणां निमित्तं । मानसं कामक्रोधलोभमोहेर्षाविषादविशेषादर्श- ननिबन्धनं । सर्व्वं चैतदान्तरोपायसाध्यत्वात् आ- ध्यात्मिकं दुःखं । इति साङ्ख्यतत्त्वकौमुदी ॥ (आत्मतत्त्वविषयकं । यथा, मनुः २ । ११७ । “लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च । आददीत यतो ज्ञानं तं पूर्ब्बमभिवादयेत्” ॥

"https://sa.wiktionary.org/w/index.php?title=आध्यात्मिकम्&oldid=115519" इत्यस्माद् प्रतिप्राप्तम्