सामग्री पर जाएँ

आनकदुन्दुभिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आनकदुन्दुभिः, पुं, (आनकाः दुन्दभयो देववद्यबिशेषाः यस्य जन्मनि । वसुदेवजन्मनि देवा दुन्दभिध्व- निञ्चक्रुः ।) बसुदेवः । इत्यमरः ॥ (कृष्णपिता । यथा -- हरिवंशे ॥ “वसुदेवो महाबाहुः पूर्ब्बमानकदुन्दुभिः । जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्रानदन् दिवि ॥ आनकानां च संह्रादः सुमहानभवद्दिवि” ॥)

आनकदुन्दुभिः, पुं स्त्री, (आनकः प्रोत्साहको दुन्दु- भिः ।) वृहडृक्का । इत्यमरटीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=आनकदुन्दुभिः&oldid=115529" इत्यस्माद् प्रतिप्राप्तम्