आनतिकर
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आनतिकरः, त्रि, (आनति + कृ + अण् ।) पारितो- षिकः । यथा । प्रायश्चित्तोपदेशाय वस्त्रादिना ब्राह्मणस्तोषणीयः । यथा मिताक्षरायां पराशरः । “पापं प्रख्यापयेत् पापी धेनुं दत्त्वा तथा वृषं” । एतच्चोपलक्षणं । “प्रख्याप्य पापं वक्त्वृभ्यः किञ्चिद्दत्त्वा व्रतं चरेत् ।” इति स्मृतेः । देवलवचने “तोषयित्वा द्विजोत्तमान् इति” । अत्र तोषयित्वा इति श्रवणात् आनतिकरत्वेन तद्ग्रहणान्नदोषः । इति प्रायश्चित्ततत्त्वं ॥
