सामग्री पर जाएँ

आनन्दनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आनन्दनम्, क्ली, (आङ् + नदि + ल्युट्) गमनागमन- समये सुहृदादेरालिङ्गनारोग्यस्वागतादिप्रश्नादि- द्वारा आनन्दोत्पादनं । तत्पर्य्यायः । सभाजनः २ स्वभाजनः ३ सुभाजनः ४ आप्रश्नः ५ आमन्त्रणं ६ ॥ इत्यमरः तट्टीका च ॥ (आनन्दजननं, हर्षोत्- पादनं । प्रभोदकरः, सुखजनकः । यदुक्तं । “मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः” । इति हितोपदेशे ।)

"https://sa.wiktionary.org/w/index.php?title=आनन्दनम्&oldid=115544" इत्यस्माद् प्रतिप्राप्तम्