आनर्त्तः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आनर्त्तः, पुं, (आङ् + नृत् + घञ् ।) देशविशेषः । द्वारका इति ख्याता । नृत्यस्थानं । युद्धं । इत्य- मरः ॥ जलं । इति मेदिनी ॥ आनर्त्तदेशवासी लोकः । इत्यमरटीका ॥ (यथा हरिवंशे । “आन- र्त्तान् कालकूटांश्च कुलिन्दांश्च विजित्य सः” ॥ स्वनामख्यातो राजा । “शर्यातेर्मिथुनं त्वासीदानर्त्तो नाम विश्रुतः । “आनर्त्तस्य तु दायादो रेवो नाम महाद्युतिः” ॥ “आनर्तविषयश्चासीत् पुरी चास्य कुशस्थली” । “आनर्त्तस्तु विभोः पुत्रः सुकुमारस्ततोऽभवत्” ॥)
