सामग्री पर जाएँ

आनाहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आनाहः, पुं, (आङ् + नह् + घञ् ।) मूत्रपुरीष- रोधकरोगः । तत्पर्य्यायः । विबन्धः २ । इत्यमरः ॥ विष्टम्भः ३ मलरोधनः ४ । इति राजनिर्घण्टः ॥ (“आनाहार्त्त ततो दृष्ट्वा तत्सैन्यमसुखार्द्दितम्” । इति महाभारते ।) तस्य सम्प्राप्तिरूपे । यथा, “आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन । प्रवर्त्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति” ॥ इति निदानं ॥ (“यस्य वातः प्रकुपितः कुक्षिमाश्रित्य तिष्ठति । नाधो व्रजति नाप्यूर्द्ध्वञ्चानाहस्तस्य जायते” ॥ इति चरकः ॥ अस्य चिकित्सामाह । भावप्रकाशे यथा, -- “तुल्यकारणकार्य्यत्वादुदावर्त्तहरीं क्रियां । आनाहेषु च कुर्व्वीत विशेषश्चाभिधीयते ॥ * ॥ त्रिवृत्कृष्णाहरीतक्यो द्विचतुःपञ्चभागिकाः । गुडेन तुल्या गुटिका हरत्यानाहमुल्वणं ॥ * ॥ वर्त्तिस्त्रिकटुसैन्धव सर्षपगृहधूमकूष्ठमदनफलैः । मधुनि गुडे वा पक्वै- र्विहिता साङ्गुष्ठसम्मिता विज्ञैः ॥ वर्त्तिरियं दृष्टफला शनैः प्रणिहिता गुदे घृताभ्यक्ता । आनाहमुदरजार्त्तिं शमयति जठरं तथा गुल्मम्” ॥ * ॥ इति त्रिकटुकाद्यावर्त्तिः ॥ * ॥ चक्रपाणिसङ्ग्रहे तु चिकित्सा यथा, -- “उदावर्त्तक्रियानाहे सामे लङ्घनपाचनम्” ॥ “द्विरुत्तरा हिङ्गुवचा सकुष्ठा सुवर्चिका चेति विडङ्गचूर्णं । सुखाम्बुनानाहविसूचिकार्त्ति- हृद्रोगगुल्मोर्द्ध्वसमीरणघ्नम् ॥ * ॥ वचाभयाचित्रकयावशूकान् सपिप्पलीकातिविषान् सकुष्ठान् । उष्णाम्बुनानाहविमूढवातान् पीत्वा जयेदाशु हितौदनाशी ॥ * ॥ त्रिवृद्धरीतकीश्यामाः स्नुहीक्षीरेण भावयेत् । वटिका मूत्रपीतास्ता ज्येष्ठा आनाहभेदिकाः ॥ * ॥ राठ-धूम-विडव्योष-गुड-मूत्रैर्विपाचिता । गुदेऽङ्गुलसमावर्त्तिर्निधेयानाहशूलनुत् ॥ * ॥ मूलकं शुष्कमात्रञ्च वर्षाभूमूलपञ्चकम् । आरेवतफलञ्चापि पक्त्वा तेन पचेद्घृतम् । तत् पीतमात्रं शमयेदुदावर्त्तमसंशयम्” ॥ * ॥ शुष्कमूलकाद्यं घृतम् ॥ * ॥) दैर्ध्यं । इति रमानाथः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आनाहः [ānāhḥ], 1 Binding.

Suppression of urine, constipation, epistasis; ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम् Mb. 3.122.15.

Length (especially of cloth).

"https://sa.wiktionary.org/w/index.php?title=आनाहः&oldid=216330" इत्यस्माद् प्रतिप्राप्तम्