सामग्री पर जाएँ

आनूपः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आनूपः, पुं, (अनूप + अण् ।) अनूपदेशस्थजन्तु- मात्रं । तच्च खङ्गिमहिषवराहादि । एषां मांस- गुणाः । गुरुत्वं । उष्णत्वं । मधुरत्वं । स्निग्धत्वं । शुक्रकारित्वं । वायुनाशित्वञ्च । इति राजवल्लभः ॥ अनूपदेशजलगुणाः । घनत्वं । गुरुत्वं । पिच्छि- लत्वं । मधुरत्वं । श्लेष्मजनकत्वं । स्निग्धत्वं । अग्नि- नाशित्वं । प्रमेहश्लीपदच्छर्द्दिगलगण्डादिरोग- कारित्वञ्च । इति राजनिर्घण्टः ॥ अनूपदेशस्थ- जन्तोर्लक्षणं तन्मांसस्य गुणाश्च । “कुलेचराः प्लवाश्चापि कोशस्थाः पादिनस्तथा । मत्स्या एते समाख्याताः पञ्चधानूपजातयः ॥ आनूपा मधुराः स्निग्धा गुरवो वह्निमर्द्दनाः । श्लेष्मलाः पिच्छिलाश्चापि मांसपुष्टिप्रदा भृशं ॥ तथाभिष्यन्दिनस्ते हि प्रायोऽपथ्यतमाः स्मृताः” ॥ इति भावप्रकाशः ॥ (“सृमरश्चमरः खङ्गो महिषो गवयो गजः । न्यङ्कुर्वराहश्चानूपा मृगाः सर्व्वे रुरुस्तथा” ॥ “गुरूष्णो मधुरो नातिधान्वानूपनिषेवणात्” । इति चरकः ॥ तथाच हारीतः ॥ “आनूपास्तेषु विज्ञेयाः श्लेष्मना वातकोपनाः” । आनूपवर्गस्तु पञ्चविधः । यथा । “कूलचराः प्लवाः कोशस्थाः पादिनो मत्स्याश्चेति” इति सुश्रुतः ॥ बहुजलयुक्ते, त्रि ।)

"https://sa.wiktionary.org/w/index.php?title=आनूपः&oldid=115586" इत्यस्माद् प्रतिप्राप्तम्