आन्वीक्षिकी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आन्वीक्षिकी, स्त्री, (श्रवणादनु ईक्षा पर्य्यालोचना प्रयोजनमस्याः । अनु + ईक्षा + ठञ् + ङीप् ।) तर्कविद्या । न्यायविद्या । इत्यमरः ॥ दुर्गा । यथा, “आत्मवेदनशीलत्वादन्वीक्षणपराथवा । अन्वीक्षां कुरुते यस्मात्तस्मादान्वीक्षिकी स्मृता” ॥ इति देवीपुराणे ४५ अध्यायः ॥ (अध्यात्मविद्या, प्रत्यक्षपरोक्षाभ्यामीक्षितस्य अर्थस्यानु पश्चात् ईक्षणं अन्वीक्षा सा प्रयोजनं यस्याः सा आन्वी- क्षिकी अनुमानविद्या न्यायदर्शनवैशिषिका- दिका । इयं हि त्रयीवार्त्तादिविद्याचतुष्टयान्त- र्गता आत्मविज्ञानहेतुका धर्म्मार्थसंसाधिका रा- जभिरवश्यं रक्षणीया सती विद्येति कथ्यते ॥ यथा, कामन्दकीयनीतिसारे । “आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च शाश्वतो । विद्याश्चतस्र एवैता लोकसंस्थितिहेतवः” ॥ “आन्वीक्षिक्यात्मविज्ञानं धर्म्माधर्म्मौ त्रयीस्थितौ । अर्थनर्थौ च वार्त्तायां दण्डनीतौ नयानयौ” ॥ इति ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आन्वीक्षिकी स्त्री।

तर्कशास्त्रम्

समानार्थक:आन्वीक्षिकी,तर्कविद्या

1।6।5।1।1

आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः। आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम्.।

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आन्वीक्षिकी¦ स्त्री श्रवणादनु ईक्षा पर्य्यालोचना रा-प्रयोजनमस्याः ठञ्। तर्कविद्यायाम् गौतमप्रर्णातायामात्मविद्यायाम्। तत्प्रतिपादकग्रन्थश्च अक्षपादेनपञ्चाध्यायी रचितः तत्रादिमं सूत्रं
“प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्ण्णयवादजल्पवितण्डाहे-त्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निश्रेय-साधिगम” इति अन्तिमसूत्रञ्च
“हेत्वाभासाश्च यथोक्ताः” इति। तत्र प्रतिपाद्यविषयाश्च पदार्थतत्त्वज्ञानान्मुक्तिफलं तत्र क्रमोक्तिः। प्रत्यक्षानुमानोपमानागमरूप-[Page0734-b+ 38] प्रमाणचतुष्ठयम् तेषां लक्षणविभागादि। आत्मदेहेन्द्रिया-र्थबुद्धिमनःप्रवृत्तिदोषप्रे त्थभावफलदुःखापवर्गरूपप्रमेयविभा-गः। इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मलिङ्गानि। चेष्टावदन्त्यावयवित्वमिन्द्रियाश्रयत्वं वा देहलक्षणम्। घ्राणरसनचक्षुस्त्वक्श्रोत्ररूपेन्द्रियविभागः तेषां पृथि-व्यादिभ्यः क्रमेणोत्पत्तिः। तत्कारणानि च क्रमेण पृथि-व्यप्तेजोवाय्वाकाशात्मकानि पञ्च भूतानि। गन्धरस-रूपस्पर्शरूपविषयपञ्चकं पृथिव्यादीनां विशेषगुणास्तेषां चक्रमेण घ्राणादिभिर्ग्राह्यता। महत्तत्त्वापर्य्यायाया बुद्धे-र्ज्ञानरूपत्वम्। मनसो लक्षणम्। प्रवृत्तिलक्षणम् रागद्वे-षाभिनिवेशरूपदोषत्रयलक्षणम्। पुनरुत्पत्तिरूपप्रेत्यभाव-लक्षणम् प्रवृत्तिजनितार्थरूपफललक्षणम्। बाधनारूपं दुःख-लक्षणम्। दुःखात्यन्तनिवृत्तिरूपापपर्गलक्षणम्। एकस्मिन्धर्म्मिणि भावाभावविरुद्धकोटिद्वयज्ञानत्वं संशयलक्षणम्तत्र साधारणधर्म्मवद्धर्म्मिज्ञानमसाधार्णधर्म्मवद्धर्म्मिज्ञानंविप्रतिपत्तिवाक्यजन्यकोटिद्वयोपस्थितिश्च कारणम्। प्रवृ-त्तिहेत्विच्छाविषयत्वं प्रयोजनलक्षणम्। वादिप्र-तिवादिनोः साध्यसाधनद्वयप्रकारकतदभावद्वयप्रकारकान्य-तरनिश्चयविषयत्वं दृष्टान्तलक्षणम् प्रतिवादनिरसनेन निः-सन्धिग्धतया अर्थनिश्चयरूपत्वं सिद्धान्तलक्षणम्। सर्वतन्त्र-सिद्धान्तः, प्रतितन्त्रसिद्धान्तः, अधिकरणसिद्धान्तः अभ्युगम-सिद्धान्त इति सिद्धान्तचतुष्ठयविभागाः तल्लक्षणानि च। प्र-तिज्ञाहेतूदाहरणोपनयनिगमरूपावयवविभागः। भाष्ये तुजिज्ञासा, संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदासश्चेतिअधिकाः पञ्चावयवा उक्तास्तेन दशावयवा इति स्थितम्। तात्पपर्य्यटीकायां तद्व्याख्यातञ्च तत्र जिज्ञासाऽज्ञातादिबु-द्धिसिद्धये प्रवर्त्तिका इच्छा जिज्ञासा। तज्जन्यश्च संशुयःशक्यप्राप्तिः प्रमाणानां ज्ञानजननसामर्थ्यं संशयव्युदा-सस्तर्कः इति। जिज्ञासा विप्रतिपत्तिरिति केचित्। ए-तेषां न्यायावयवत्वं नास्तीति वृत्तौ स्थितम्। साध्यविशि-ष्टतया पक्षस्य निर्देशः प्रतिज्ञालक्षणम् व्याप्तिविशिष्टहेतु-बोधकः शब्दो हेतुरूपावयः। व्याप्तिश्च अन्वयव्यतिरेकभेदेन द्विविधा तथा च ज्ञातान्वय व्याप्तिककहेतुबोधकःअज्ञातव्यतिरेकव्याप्तिकहेतुबोधकश्च। साधनवत्ताप्रयुक्तसाध्यवत्तानुभावकोऽवयवः साध्यसाधनव्याप्तिप्रदर्शकःउदाहरणम् तत्र व्याप्तिश्च द्विबिधा अन्वयोव्यतिरेकश्च। प्रकृतोदाहरणोपदर्शितव्याप्तिमद्धेतुविशिष्टपक्षयोधक उप-नयावयवः व्याप्तिश्च अन्वयव्यतिरेकभेदेन द्विधा[Page0735-a+ 38] प्रविष्टा। व्याप्तिविशिष्टस्य हेतोः पक्षवृत्तिताकथन-पूर्वकसाध्यविशिष्टपक्षबोधकवाक्यत्वं निगमनलक्षणम्। व्यापकाभाववत्त्वेन निर्ण्णीते धर्म्मिणि व्याप्यस्याहार्य्यारोपात् व्यापकस्याहार्य्यारीपः तर्क इति तर्कलक्षणम्यथा निर्वह्नित्वारोपान्निर्धूमत्वारोपः निर्वह्निःस्यान्निर्धूमःस्यादित्वादि। सन्दिग्धपक्षस्य साधनयुक्त्या प्रतिपक्षस्यबाधनयुक्त्या च अर्थावधारणं निर्णय इति तल्लक्षणम्। इत्येते

१ मअ॰

१ म आह्निके पदार्था दर्शिताः। वादादिल-क्षणानि। तत्र प्रमाणतर्कसाधनोपालम्भः सिद्धान्तावि-रुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहोवादः इतिवादलक्षणं प्रमाणतर्काभ्यां स्वपक्षस्य साधनं विपक्षस्योपा-लम्भो दूषणं चयत्र। पक्षप्रतिपक्षौ विप्रतिपत्तिकोटी तयोःपरिग्रहः तत्साधनोद्देश्यकोक्तिप्रत्युक्तिरूपवाक्यवि-शेषो वाद इति तदर्थः। छलजातिनिग्रहस्थाना-दिकं विपक्षे ससुद्भाव्य तस्य दूषणेन स्यपक्षस्थापनवाक्यत्वं जल्पलक्षणम्। स्वपक्षस्थापनाराहित्येन परपक्ष-निराकरणवाक्यत्वम् वितण्डालक्षणम्। सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकालरूपान् पञ्च हेत्वाभासान्विभज्य तेषां लक्षणानि। वाद्युक्त वचनस्य अर्थान्तरपर-त्वकल्पनेन युक्त्या तत्खण्डनं छलमिति छललक्षणम्। त-च्चवाक्छलार्थच्छलोपचारच्छलभेदेन त्रिविधम्। व्याप्तिनिर-पेक्षतया दूषणोक्तिर्जातिः तद्भेदाश्चतुर्विंशतिः

५ अ॰ वाच्याः। उद्देश्यानुगुणसम्यग्ज्ञानाभावलिङ्गत्वं निग्रहस्यानलक्षणमिति

१ अ॰

२ आह्निके एते पदार्था उक्ताः। संशयका-रणादिनिरूपणम् प्रमाणात् प्रमेयसिद्धिः। प्रत्यक्षप्रमाण-लक्षणे परिशिष्टविवेचनम्। मनसोऽणुत्वे ज्ञानायौगपद्यस्यहेतुतयोक्तिः। प्रत्यक्षस्य क्वचिदन्मित्यात्मकताशङ्का-यां तन्निराकरणम्। अवयवेभ्योऽवयविनोऽतिरिक्ततासाधनम्। अनुमानाप्रामाण्यशङ्कातन्निरासौ। वर्त्तमा-नावस्थानिराकरणतत्स्थापने। उपमानाप्रामाण्यशङ्कानिराकरणे। अनुमाने उपमानस्य गतार्थत्वमाशङ्क्यशाब्दवोधस्यानुमानेऽन्तर्भावमाशङ्क्यच तन्निवारणम्। सश-क्तिकस्यैव शब्दस्य बोधकत्वव्यवस्थापनम्। दृष्टादृष्टार्थ-कत्वेन शब्दद्वैविध्यम्। तत्रादृष्टार्यकस्य वेदशब्दस्यअनृतव्याघातपुनरुक्तदोषेभ्यः अप्रामाण्यमाशङ्क्य युक्त्याप्रामाण्यसमर्थनम्। विध्यर्थवादानुवादभेदात् ब्राह्मणरूपवेदभागस्य त्रैविध्योक्तिः। विधिलक्षणम्। स्तुतिःनिन्दा परकृतिः पुराकल्प इति भेदादर्थवादचातुर्विध्योक्तिः[Page0735-b+ 38] विधिविहितस्यानुकथनमनुवादैत्यनुवादलक्षणम्। वेदै-कदेशविषहरमन्त्रादेः आरोग्यार्थौषधादिप्रतिपादका-युर्वेदभागस्य संवादिफलकत्वेन तद्दृष्टान्तेन इतरवेद-भागस्य प्रामाण्यव्यवस्थापनम्।

२ अ॰

१ आह्निके एतेपदार्थाः। ऐतिद्यार्थापत्तिसम्भवाभावरूपाणामतिरिक्तप्र-माणत्वमाशङ्क्य ऐतिह्यस्य शब्देऽन्तर्भावः अर्थापत्तिसम्भवाभा-वानाञ्चानुमानेऽन्तर्भाव इति समर्थनम्। अभावस्य प्रमेयत्व-व्यवस्थापनम्। शब्दस्यानित्यताव्यवस्थापनम्। शब्दस्य घण्टा-द्याश्रयकत्वनिराकरणम्। व्याकरणविधौ वर्ण्णानां विकारपक्ष-निराकरणेनादेशपक्षव्यवस्थापनम्। वर्ण्णानामविकारित्वे-ऽपि गुणान्तरापत्त्युपमर्द्दह्रासवृद्धिलेशश्लेषैः विकारव्यवहारइति व्यवस्थापनम्। तत्र उदात्तेऽनुदात्तत्वं गुणान्तरापत्तिः। उपमर्द्दो धर्म्मिनिवृत्तिः यथा अस्तेर्भूः। ह्रासःदीर्घस्यह्रस्वता, वृद्धिर्ह्रस्वस्य दीर्धता, लेश एकदेशविकृतिः यथा अस्ते-रल्लोपः। श्लेषः आगभ इडादि। एतैर्विकारव्यवहारः। पदलक्षणम्। जात्यादीनां प्रत्येकं पदार्थत्वपक्षं निराकृत्यजात्याकृतिव्यक्तीनां समुदितानां पदार्थत्वव्यवस्थापनम्। व्यक्त्याकृतिजातीनां लक्षणानि एते

२ अ॰

२ आह्निकगतार्थाः। इन्न्द्रियचैतन्यवादनिराकरणम्। भूतचैतन्य-वादनिराकारणम् उभयगोलकेनेत्रैक्यव्यवस्थापनम्। आ-त्मन इन्द्रियभेदे युक्तिप्रदर्शनम्। मनस आत्मत्वनिराकरणम्। आत्मनित्यतासाधनम्। मनुष्यदेहस्य पार्थिवत्वसाधनम्। तस्य पार्थिवाप्यतैजसत्वमतोपन्यासः चातुर्भौतिकत्वमतो-पन्यासः पाञ्चभौतिकत्वमतोपन्यासः। इन्दियाणांगोलकातिरिक्तत्वस्य व्यवस्थापनम्। तेषामाहङ्कारिक्त्वनि-राकरणेन भौतिकत्वव्यवस्थापनम्। इन्द्रियाणामप्रत्यक्षत्वेऽप्यनुमेयताव्यपस्थापनम्। चक्षुषः प्राप्यकारित्वसाधनम्। इन्द्रियैकत्वमाशङ्क्य तेषां पञ्चत्वसाधनम्। भूतानां विशेष-गुणाः तेषाञ्चैकैकेन्द्रियग्राह्यतेति निरूपणम्। घ्राणादीना-मनुद्भूतगन्धादिसाधनम्।

३ अ॰

१ म आह्निकगतार्थाः। सांख्यमतसिद्धबुद्धेर्नित्यत्वनिराकरणम् मनसोऽणुत्वेन-ज्ञानानां क्रमिकत्वसाधनम्। मनसोविभुत्वेगत्यभावप्रसङ्गेनसर्वेन्द्रियैः सर्वदासम्बन्धापत्त्या च सर्वविषयकज्ञानापत्तिदो-षात् विभुत्वनिरासः। भावानां नियमेन क्षणिकत्वपक्षख-ण्डनम्। परिणामवादखण्डनम्। इन्द्रियार्थयोरन्वयव्यतिरे-कसत्त्वेऽपि ज्ञानस्य न तयोर्धर्म्मत्वं किन्तु आत्मधर्म्म-त्वमिति समर्थनम्। ज्ञानाऽनित्यत्वसाधनम् स्मरणायौगपव्येकारणप्रदर्शनम्। ज्ञानवत् इच्छादीनामात्मधर्म्म-[Page0736-a+ 38] त्वव्यवस्थापनम्। इतरगुणत्वनिवारणेन ज्ञानादेरा-त्मधर्म्मत्वव्यवस्थापनम्। स्मरणोपयोगिप्रणिधानादिकारणानि। बुद्ध्यादेः आशुविनाशित्वव्यवस्थापनम्। रूपादेरिव यावद्द्रव्यभावित्वाभावेन ज्ञानादिविशेषगुणानांदेहधर्म्मत्वनिरासेनात्मधर्म्मत्वसमर्थनम्। केशनखादिषुसुखाद्यनुलब्धेः त्वक्पर्य्यन्तस्यैव देहस्य सुखाद्यवच्छेदकत्व-साधनम्। प्रतिदेहं मनसो नानात्वखण्डनम्। एकत्वेऽपिमनसः शीघ्रसञ्चारः। ज्ञानयौगपद्यस्य भ्रमत्वसमर्थनेनमनोऽणुत्वसाधनम्। देहस्य अदृष्टसापेक्षोत्पत्तिकत्वसाधनम्। अदृष्टसहकारेणैव मातापित्राहारस्यतदारम्भकत्वसमर्थनम्। अदृष्टाभावे नित्यात्मनः संयोगे-ऽपि न देहोत्पत्तिरिति निरूपणम्। आत्मनोवि-भुत्वे सर्वशरीरैः संयोगे सत्यपि तददृष्टजन्यदेह एवतस्यविशेषसंयीगः भोगसाधक इति नियमनम्। परमाणु-गतादृष्टाङ्गीकर्त्तुरार्हतस्य मतनिराकरणम् अदृष्टस्य मनो-गुणत्वस्यामि तन्मतसिद्धस्य निराकरणम्।

३ अ॰

२ आ॰गतार्थाः। प्रवृत्तिसाधनरागद्वेषाभिनिवेशात्मकदीषत्रैविध्य-कथनम्। तत्र मोहस्य सर्व्वानर्थमूलत्वेन पापीयस्त्वसमर्थनम्। आत्मनोनित्यत्व एव प्रेत्यभावसिद्धिः अनित्यत्वे न तत्-सिद्धिस्तथा च एकजातीयशरीरेणाद्यःसम्वन्ध उत्पादः तत्रचरमसम्बन्धनाशोमरणं तयोरेकस्मिन् आत्मनि नित्ये एवसम्भवः शरीरादेर्नष्टत्वात् न तदाश्रयत्वमिति समर्थनम्उत्पत्तिप्रकारनिरूपणम्। वीजानामुपभर्द्देनाङ्कुरोत्पत्ति-दर्शनात् अभावादेव भावोत्पत्तिरिति अभावोपादनत्वम-तनिराकरणम्। कर्म्मनिरपेक्षस्यईश्वरस्यैव जगत्कारणत्वमतखण्डनेन कर्मसापेक्षस्य तस्य जगत्कारणत्वव्यबस्थापनम्। परमाण्वादिवदीश्वरस्य नोपादानत्वमिति व्यवस्थापनम्। भाष्पे तु गुणविशिष्टमात्मान्तरमीश्वर इतीश्वरलक्षणमुक्तम्। तदर्थश्च
“गुणैर्नित्यज्ञानेच्छाप्रयत्नरूपविशेषगुणैः सामान्य-गुणैश्च संयोगादिभिर्विशिष्टम् आत्मान्तरं जीवेभ्यो भिन्नआत्मा जगदाराध्यः सृष्ट्यादिकर्त्ता वेद्द्वारा हिताहितोप-देशकोजगतः पितेति” वृत्तावुक्तः। कण्टकतैक्ष्ण्यवज्जगतामा-कस्मिकत्वखण्डनम्। सर्वानित्यत्वखण्डनम्। सर्वनित्यत्वख-ण्डनम्। घटादीनां परमाणुपुञ्जात्मकतावादखण्डनेन एका-वयविसाधनम् सर्वभूतानामभावरूपतानिराकरणम्। संख्यै-कान्तवादनिराकरणम्। संख्यैकान्तवादाश्च भाष्ये बहवोदर्शिताः।
“सर्वमेकं सदविशेषात्, सर्वं द्वेधा नित्यानित्यभे-दात्, सर्वं त्रेवा ज्ञाता ज्ञेयं ज्ञानमिति, सर्वं चतुर्द्धा[Page0736-b+ 38] प्रमाता प्रमाणम् प्रमितिः प्रमेयमिति, एवमन्येऽपि”। तत्रयथा नित्यत्वानित्यत्वाभ्यांद्वैधं तथा सत्त्वेनैक्यम् घटः सन्पटः सन्नित्येकाकारसत्त्वप्रतीतेः। अन्ये तु एकमित्यद्वैतमाहु-स्तथा च ब्रह्मैवैकं निर्विशेषं सत् सर्वमन्यन्मिथ्या। अन्येऽ-पीति रूपसंज्ञासंस्कारवेदनानुभवाः पञ्चस्कन्धाः षट्पदार्थीसप्तपदार्थीत्यादि मतभेदाः। तत्राद्वैतपक्षनिराकरणं यथाब्रह्माद्वैतस्वीकारे तत्साधकप्रमाणस्यासिद्धिः प्रमाणसत्त्वेतु न सर्त्त्वैकत्वसिद्धिरित्थं दूषणेन सत्त्वैकत्ववादनिराकर-णम्। यथा वृक्षमूलसेकात् तदीयावयवोपचयद्वारवशेनफलोत्पत्तिस्तथा यागादेर्नाशेऽपि तज्जन्यादृष्टरूपद्वारसत्त्वात्स्वर्गाद्युत्पत्तिरिति व्यवस्थापनम्। स्वर्गादेः स्वरूपेण फल-त्वसाधनम्। फलस्य उत्पत्तेः प्रागसत्त्वेन शशशृङ्गादेरिवउत्पत्त्यसम्भवः सत्त्वे च उत्पत्त्ययोग्यतया कारणव्यापा-रानर्थक्यं सदसत्त्वाङ्गीकारे च विरोध इत्याशङ्क्य फलस्यउत्पत्तेः प्राक् असत्त्वव्यपस्थापनम् असत उत्पत्तौ इहतन्तुषु पटो भविष्यतीति प्रागभावज्ञानस्यैव प्रवर्त्तक-तयाऽनियमवारणम्। कर्म्मकर्त्तृदेहादेर्नाशेऽपि अदृ-ष्टस्यात्मन्येवोत्पत्तेः तेनैव चादृष्टेन जायमाने स्वर्ग्यादि-देहे सुखभोगे सामानाधिरण्यसम्भवेनादृष्टजन्यस्वर्गा-दिफलस्यात्मनिष्ठत्वव्यवस्थापनम्। सुखदुःखयोरेव सुख्य-फलत्वं स्त्रीपुत्रादेस्तु तत्सावनत्वादौपचारिकफलत्व-मिति नादृष्टसामानाधिकरणव्याघात इति समर्थनम्। देह-सम्बन्धस्यैव विविधबाधनायोगहेतुत्वाद्दुःखरूपत्वकथनम्विविधदुःखयुक्ततया शरीरस्य दुःखत्वेन भावनाकथनम्दुःखमध्ये सुखस्यास्युत्पत्ते स्तत्प्रत्याख्यानानौचित्येऽपितदुपार्ज्जनादौ दुःखबाहुल्यात् देहसंबद्धं सर्व्वंदुःखमित्येव भावनीयमिति निरूपणम्। प्रति-षिद्धभोजनमैथुनादौ प्रवृत्तिनिवारणार्थमपि दुःखस्यहेयोत्वोक्तिः। आर्षदैवपैत्रर्ण्णापाकरणानुबन्धेनापव-र्गकालाभावमाशङ्क्य आयुषश्चतुर्थभागेऽपवर्गसाधनकाल-त्वसाधनम् तथा कामनाशून्यस्य विरक्तस्य ततोऽर्वागपितत्सेवनव्यवस्थापनम्। तत्त्वज्ञानोत्पत्तौ प्रारब्धा-तिरिक्तकर्म्मजन्यादृष्टमात्रनाशेन न खर्गफलकादृष्टेनप्रतिबन्ध इति कथनम्। क्लेशानुबन्धकृतापवर्गाभावमाश-ङ्क्य सुषुप्तस्य सर्व्वक्लेशाभाववदपवर्ग इति सुषुप्ति-दृष्टान्तेन हेत्वभावेनाऽपवर्गे दु खाभावसाधनम्। रा-गशून्यस्यानुत्पत्तेः रागादीनां च मित्थाज्ञाननिमित्तकत्वेनतत्त्वज्ञानेन च मिथ्याज्ञाननिवृत्तौ दुःखनिवृत्तिरिति[Page0737-a+ 38] क्रमकथनम्

४ अ॰

१ आ॰ गतार्थाः। देहात्मबुद्ध्वेर्दोष-जन्यतया दोषस्य च मिथ्याज्ञानाधीनत्वेन तत्त्वज्ञानात्आत्मनोदेहादिभ्यो भेदज्ञाननिवृत्तौ तदभेदज्ञाननिरा-सेन मिथ्याज्ञाननिवृत्तिः तस्यां च सत्यां क्रमेण प्रवृत्तिनि-वृत्त्या दुःखनिवृत्तिरूपापवर्गसिद्धिः अतोऽपवर्गसाधनं तत्त्वज्ञानमित्येवंप्रतिपादनम्। साधुतया भावितानां रूपादि-विषयाणां दोषहेतुत्वकथनम्। सौन्दर्य्यं पश्यतो रागादिर्ब्र-ह्मणोऽप्यसुकरपरिहार इत्याशङ्क्यतत्र सौन्दर्य्यबुद्धे रागा-धीनतया तरुण्यादिदेहे सौन्दर्य्याभिमानस्य त्याज्यताकथनम्। भाष्ये तु
“परिष्कारबुद्धिरनुरञ्जनसंज्ञा सा हेया दोष-दर्शनमशुभसंज्ञा सा भावनीया” इत्युक्तम्। तथा च
“खेल-त्खञ्जननयना परिणतविम्बधारा पृथुश्रोणी। कमलसुकुलस्तनीयम् पूर्ण्णेन्दुमुखी सुखाय मे भवितेति” अनुरञ्जन-संज्ञा।
“चर्म्मनिर्म्मितपात्रीयं मांसासूक्पूयपूरिता। अस्यांरज्यति यो मूढः पिशाचः कस्ततोऽधिकः” अशुभसंज्ञाएवं स्वदेहादावपि चिन्तनम्। परमाणुपुञ्जस्यैव घटादि-रूपताऽतोनास्ति अतिरिक्तोऽवयवीति सौत्रान्तिकवैभाषिकयो-र्मतस्य पूर्ब्बदूषितस्यापि स्वमतदार्ढ्याय पुनर्दूषणम्। परमाणोस्त्रुटिपरत्वव्यवस्थापनम्। आकाशस्य सर्व्वगतत्वंसर्वमूत्तसंयोगित्वं तत्र संयोगस्याव्याप्यवृत्तितया तदवच्छेदक-भेदं विनाऽनुपपत्त्या सावयेवत्वापत्तिमाशङ्क्य मूर्त्त पदार्थस्यै-वावयवानां तदवच्छेदकत्वम् इत्युक्त्या तस्य निरयव-त्वसमर्थनम्। सर्व्वत्र शब्दोत्पत्त्या तज्जनकसंयोगानु-मानात् आकाशस्य सर्व्वमूर्त्तसंयोगित्वसमर्थनम् आकाशेच प्रतिहतस्य परावर्त्तनरूपव्यूहस्य उत्तरदेशगतिप्र-तिबन्धरूपविष्टम्भस्याभावात् विभुत्वव्यवस्थापनम्। पर-साणोः संयोगवत्त्वान्यथानुपपत्त्या सावयवत्वापत्तिः संयोगस्यअव्याप्यवृत्तितया अव्याप्यवृत्तेश्चावच्छेदकभेदं विना सत्त्वा-सम्भवादित्याशङ्क्य तदवयवानामपि संयोगसिद्धये सावयवत्वकल्पनायामनवस्थापत्तिरतो दिग्विभागानामेव संयोगाव-च्छेदकत्वकल्पनेन परमाणोर्निरवयवत्वसमर्थनम्। ज्ञानाति-रिक्तोबाह्यपदार्थो नास्तीत्यत्र यदि प्रमाणमस्ति तदा ज्ञा-नातिरिक्तप्रमाणरूपबाह्यस्य सत्त्वान्न बाह्यामाबः अथ तत्रप्रसाणं नास्ति तदा निष्प्रमाणकत्वान्न तत्सिद्धिरित्येवंरूपेण बाह्यार्थाभावाङ्गीकर्त्तृमतनिराकरणम्। स्वप्नस्यस्मृतिविशेषरूपत्वं व्यवस्थाप्य शुक्तिरजतविज्ञानेरजतांशस्य ज्ञानलक्षणया उपनीतस्य संसर्गमात्रबोध इति व्यवस्थापननेन स्वप्लदृष्टान्तेन ज्ञान-[Page0737-b+ 38] मात्रस्यासद्विषयकत्ववादिमतनिराकरणम्। इत्येवंघाह्या-र्यभङ्गनिराकरणम्। ज्ञानसामान्यात् तत्त्वज्ञानस्यापिक्षणिकत्वात् तन्नाशे प्रतिबन्धकापाये पूर्ब्बवासनावशात्मिथ्याज्ञानं पुनरुतपपद्येतेति तत्त्वज्ञानस्य न मिथ्याज्ञानो-च्छेदकतेत्याशङ्कायां तन्निरासः। समाधिविशेषाभ्या-सात् तत्त्वज्ञानस्य विवृद्धिः। तद्वृद्ध्या च मिय्याज्ञानवास-नातिरोमावान्न तत् फलायालमिति समर्थनम्। ततश्चतत्त्वज्ञानसंस्कारः अन्यसंस्कारप्रतिवन्धी भवतीतिव्यवस्थापनम्। तत्र प्रतिवन्धश्च कार्य्याक्षमत्वसम्पादनं वि-नाशोवेति। स्वाभाविकविषयरागादिना प्रतिबन्धात् स-माध्यसम्भवमाशङ्क्य पूर्ब्बकृतेश्वराधनादिना अभ्यास-पाटवे जनिते तत्संस्कारात् समाधिसिद्धिरिति समर्थनम्। तथा च पूर्व्वकृतेश्वरानुसन्धानादिसहकारेणैव तत्त्वज्ञानेजननीये न रागादेः प्रतिबन्धकत्वम्। अरण्यगुहा-पुलिनादिषु योगाभ्यासस्थानत्वकथनम्। अपवर्गे प्रारब्धकर्म्मानुसारेण देहादेः सत्त्वेन तदनुरूपार्थायभाससद्भा-वकथनम्। प्रारब्धकर्म्मावसाने देहाभावे विदेहकैवल्यप्राप्तिकथनम्। समाधिसिद्धये यमनियमाद्यष्टाङ्गयोगाभ्यासस्यावश्यरुतोक्तिः। श्रवणमनननिदिध्यासनैरात्मसाक्षात्कारो-त्पत्तिकथनम्। एतच्छास्त्राभिज्ञैः सह स्वनिश्चितार्थदार्ढ्यायएतच्छास्त्रोदितार्थनिश्चयस्य संवादः कर्त्तव्य इति प्रति-पादनम्। संवादश्च शिष्यगुरुसब्रह्मचारिश्रेयीर्थिभिःजिगीषाहीनैः सह कार्य्य इति निरूपणम्। तत्त्वनिर्ण्णयार्थंप्रतिकूलपक्षहीनतया संवादः करणीयः न जिगीषयेतिनिरूपणम्। तत्त्वनिश्चयसंरक्षणार्थं वीजप्ररोहसंरक्षार्थकण्ठकवरणवत् त्रयीबाह्यैः सह जल्पवितण्डे आश्रयणीये न वाद इत्येत्कथनम् तथा च यदि त्रयीबाह्यैःस्वपक्षआक्षिप्यते तदा जल्पवितण्डाभ्यां तेषांमतं खण्डनीयम्। एते अर्थाः

४ अ॰

२ आ॰ उक्ताः। साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्रा-प्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेतुत्वर्थापत्त्यविशे-षोपपत्त्युपलब्धिनित्यानित्यकार्य्यसमाश्चतुर्विशतिं जातो-र्विभज्य तल्लक्षणान्युक्तानि। कथाभासप्रकरणम्।

५ अ॰

१ मआ॰ गतार्थाः। प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासः हेत्वन्तरमर्थान्तरम् निरर्थकमविज्ञातार्थमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभा-षणनज्ञानमप्रतिभा विक्षेपोमतानुज्ञा पर्य्यनुयोज्योपेक्षणंनिरनुयोज्यानुयोगोऽपसिद्धान्तोहेत्वाभासाश्च निग्रह-[Page0738-a+ 38] स्थानानि इति निग्रहस्थानानि विभज्य तेषां क्रमेणलक्षणानि उक्तानि

५ अ॰

२ आ॰ गतार्थाः। यथा पदार्थतत्त्वज्ञानादपवर्गस्तथा तन्मतं सर्व्व॰ द॰ ममग्राहि। यथा
“ननु तत्त्वज्ञानान्निःश्रेयसम्भवतीत्युक्तं तत्र किं तत्त्वज्ञाना-दनन्तरमेव निःश्रेयसं सम्पद्यते, नेत्युच्यते तत्त्वज्ञानाद्दुः-खजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्त-राभाव इति। तत्र मिथ्याज्ञानं नामानात्मनि देहादा-वात्मबुद्धिः तदनुकूलेषु रागः तत्प्रतिकूलेषु च द्वेषः वस्तु-तस्त्वात्मनः प्रतिकूलमनुकूलं वा न किञ्चित् समस्ति पर-स्परानुबन्धत्वात्तु रागादीनां, मूढोर ज्यति रक्तो मुह्मतिमूढः कुप्यतिकुपितो मुह्यतीति ततस्तैर्दौषैः प्रेरितः प्राणीप्रतिषिद्धानि शरीरेण हिंसास्तेयादीन्याचरति वाचाअनृतादीनि, मनसा परद्रोहादीनि, सेयं पापरूपा प्रवृ-त्तिरधर्ममावहतीति। शरीरेण प्रशस्तानि दानपरपरि-त्राणादीनि, वाचा हितसत्यादीनि, मनसा अहिंसादीनि,सेयं पुण्यरूपा प्रवृत्तिर्धर्मम्। सेयमुभयी प्रवृत्तिः ततःस्वानुरूपं प्रशस्तं निन्दितं वा जन्म पुनः शरीरादेः प्रादु-र्भावः तस्मिन् सति प्रतिकूलवेदनीयतया वासनात्मकं दुःखंभवति त इमे मिथ्याज्ञानादयो दुःखान्ता अविच्छेदेनप्रवर्त्तमानाः संसारशब्दार्थो घटीचक्रवन्निरवधिरनुवर्त्तते। यदा कश्चित् पुरुषधौरेयः पुराकृतसुकृतपरिपाकवशादा-चार्य्योपदेशेन सर्व्वमिदं दुःखायतनं दुःखानुषक्तञ्च पश्यतितदा तत्सर्ब्बं हेयत्वेन बुध्यते ततस्तन्निवर्त्तकमविद्यादिनिवर्त्तयितुमिच्छति तन्निवृत्त्युपायश्च तत्त्वज्ञानमिति कस्य-चिच्चतमृभिर्विद्याभिर्विमक्तं भावयतः सम्यग्दर्शनपदवेदनीय-तया तत्त्वज्ञानं जायते तत्त्वज्ञानान्मिथ्याज्ञानमपैति, मि-थ्याज्ञानापाये दोषाः अपयान्ति, दोषापाये प्रवृत्तिरपैति,प्रवृत्त्यपाये जन्मापैति, जन्मापाये दुःखमत्यन्तं निवर्त्ततेसात्यन्तिकी निवृत्तिरपवर्गः। निवृत्तेरात्यन्तिकत्वं नामनिवर्त्त्यसजातीयस्य पुनस्तत्रानुत्पाद इति तथा च पारम-र्षसूत्रम्
“दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापायेतदनन्तराभावादपवर्ग” इति। ननु दुःखात्यन्तोच्छेदोऽपवर्गइत्येतदद्यापि कफोणिगुडायितं वर्त्तते तत्कथं सिद्धवत्-कृत्वा व्यवह्रियत इति चेन्मैवं सर्व्वेषां मोक्षवादिनामपव-र्गदशायामात्यन्तिकी दुःखनिवृत्तिरस्तीत्यस्यार्थस्य सर्व्व-तन्त्रसिद्धान्तसिद्धतया घण्टापथत्वात् नह्यप्रवृत्तस्य दुःखंप्रत्यापद्यते इति कश्चित् प्रपद्यते तथा हि आत्मोच्छेदोमोक्ष इति माध्यमिकमते दुःखोच्छेदोऽस्तीत्येतावत्तावदवि-[Page0738-b+ 38] वादम्। अथ मन्येथाः शरीरादिवदात्मापि दुःखहेतुत्वा-दुच्छेद्य इति तन्न सङ्गच्छते विकल्पानुपपत्तेः किमात्माज्ञानसन्तानो विवक्षितः तदरिक्तो वा। प्रथमे न विप्रति-पत्तिः कः खल्वनुकूलमाचरति प्रतिकूलमाचरेत्। द्वितीये-तस्य नित्यत्वे निवृत्तिरशक्यविधानैव प्रवृत्त्यनुपपत्तिश्चा-धिकं दूषणं न खलुकश्चित् प्रेक्षावान्
“आत्मनस्तु कामायसर्वं प्रियं भवतीति” सर्व्वतः प्रियतमस्यात्मनः समुच्छेदायप्रयतते सर्वोहि प्राणी मुक्त इति व्यवहरति। ननुधर्मिनिवृत्तौ निर्मलज्ञानोदयो महोदय इति विज्ञानवा-दिवादे सामग्र्यभावः सामानाधिकरण्यानुपपत्तिश्च भावना-चतुष्टयं हि तस्य कारणमभीष्टं तच्च क्षणभङ्गपक्षे स्थिरै-काधारासम्भवात् लङ्घनाभ्यासादिवदनासादितप्रकर्षं न स्फु-टमभिज्ञानमभिजनयितुं प्रभवतिसोपप्लवस्य ज्ञानसन्तानस्यबद्धत्वे निरुपप्लवस्य च मुक्तत्वे यो बद्धः स एव मुक्त इतिसामानाधिकरण्यं न सङ्गच्छते। आवरणमुक्तिर्मुक्तिरितिजैनजनाभिमतोऽपि मार्गो न निर्गतो निरर्गलः। अङ्गभवान्पृष्टो व्याचष्टां किमावरणम्? धर्म्माधर्मभ्रान्तय इति चेत्इष्टमेव। अथ देहमेवावरणं तथा च तन्निवृत्तौ पञ्जरान्मु-क्तस्य शुकस्येवात्मनः सततोर्द्ध्वगमनं मुक्तिरिति चेत्तदावक्तव्यं किमयमात्मा मूर्त्तोऽमूर्त्तो वा। प्रथमे निरवयवःसावयवो वा निरवयवत्वे निरवयवो मूर्त्तः परमाणुरितिपरमाणुलक्षणापत्त्या परमाणुधर्मवदात्मधर्माणामतीन्द्रियत्वंप्रसजेत्। सावयवत्वे यत् सावयवं तदनित्यमिति प्रतिबन्धवले-नानित्यत्वापत्तौ कृतप्रणाशाकृताभ्यागमौ निष्प्रतिबन्धौ प्रस-ज्येयाताम्। अमूर्त्तत्वे गमनमनुपपन्नमेव चलनात्मिकायाःक्रियायाः मूर्त्तप्रतिवन्धात्। पारतन्त्र्यं बन्धः स्वातन्त्र्यंमोक्ष इति चार्वाकपक्षेऽपि स्वातन्त्र्यं दुःखनिवृत्तिश्चेदवि-वादम्। ऐश्वर्य्यं चेत् सातिशयतया सदृक्षतया च प्रेक्षावतांनाभिमतम्। प्रकृतिपुरुषान्यत्वख्यातौ प्रकृत्युपरमे पुरुषस्यस्वरूपेणावस्थानं मुक्तिरिति साङ्ख्यख्यातेऽपि पक्षे दुःखो-च्छेदोऽभ्युपेयते विवेकज्ञानं पुरुषाश्रयं प्रकृत्याश्रयं वेति एताव-दवशिष्यते तत्र पुरुषाश्रयमिति न श्लिष्यते पुरुषस्य कौटस्थ्यात्स्थाननिरोधापातान्नापि प्रकृत्याश्रयः अचेतनत्वात् तस्याः। किञ्च प्रकृतिः प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वा आद्येअनिर्मोक्षः स्वाभावस्यानपायात् द्वितोये सम्प्रति संसारोऽ-स्तमियात्। नित्यनिरतिशयसुखाभिव्यक्तिमुक्तिरिति भट्ट-सर्ब्बज्ञाद्यभिमतेऽपि दुःखनिवृत्तिरभिमतैव परन्तु नित्य-सुखं न प्रमाणपद्धतिमध्यास्ते। श्रुतिस्तत्र प्रमाणमिति[Page0739-a+ 38] चेन्न योग्यानुपलब्धिबाधिते तदनवकाशादवकाशे वा ग्रा-वप्लावेऽपि तथाभावप्रसङ्गात्। ननु सुखाभिव्यक्तिर्मुक्ति-रिति पक्षं परित्यज्य दुःखनिवृत्तिरेव मुक्तिरिति स्वीकारःक्षीरं विहायारोचकग्रस्तस्य सौवीररुचिमनुहरतीति चेत्त-देत न्नाटकपक्षपतितत्वद्वच इत्युपेक्ष्यते। सुखस्य साति-शयत्वेन प्रत्यक्षतया बहुप्रत्यनीकाक्रान्ततया साधनप्रार्थना-परिक्लिष्टतया च दुःखाविनाभूतत्वेन विषानुषक्तमधुवत्दुःखपक्षनिक्षेपात्। नन्वेकमनुसन्धित्सतोऽपरं प्रच्यवतेइति न्यायेन दुःखवत् सुखमप्युच्छिद्यत इति अकाम्यो-ऽयं पक्ष इति चेन्मैवं मंस्थाः सुखसम्पादने दुःखसा-धनबाहुल्यानुषङ्गनियमेन तप्तायःपिण्डे तपनीयबुद्ध्याप्रवर्त्तमानेन साम्यापातात् तथा हि न्यायोपार्ज्जितेषुविषयेषु कियन्तः सुखखद्योताः कियन्ति दुःखदुर्दिनानि, अन्यायोपार्ज्जितेषु तु यद्भविष्यति तन्मनसापि चि-न्तयितुंन शक्यमित्येतत् स्वानुभवमप्रच्छादयन्तः सन्तोविदां-कुर्व्वन्तु विदांवरा भवन्तः। तस्मात् परिशेषात् परमेश्वरा-नुग्रहवशाच्छ्रवणादिक्रमेणात्मतत्त्वसाक्षात्कारवतः पुरुषधौ-रेयस्य दुःखनिवृत्तिरात्यन्तिकी निःश्रेयसमिति निरवद्यम्। नन्वीश्वरसद्भावे किं प्रमाणं प्रत्यक्षमनुमानमागमो वा नतावदत्र प्रत्यक्षं क्रमते रूपादिरहितत्वेनातीन्द्रियत्वात् ना-प्यनुमानं तद्व्याप्तिलिङ्गाभावात् नागमः विकल्पासहत्वात्किं नित्योऽवगमयत्यनित्यो वा। आद्ये अपसिद्धान्तापातःद्वितीये परस्पराश्रयापातः। उपमानादिकम शक्यशङ्कमनि-यतविषयत्वात्। तस्मादीश्वरः शशविषाणायते इति चेत्त-देतन्न चतुरचेतसां चेतसि चमत्कारमाविष्करोति। विवा-दास्पदं नगसागरादिकं सकर्तृकं कार्य्यत्वात् कुम्भवत्। न चायमसिद्धो हेतुः सावयवत्वेन तस्य सुसाधत्वात्। ननु किमिदं सावयवत्वम् अवयवसंयोगित्वम् अवयवसमवा-यित्वं वा नाद्यः गगनादौ व्यभिचारात् न द्वितीयः तन्त्वा-दावनैकान्त्यात्। तस्मादनुपपन्नमिति चेन्मैवं वादीःसमवेतद्रव्यत्वंसावयवत्वमिति निरुक्तेर्वक्तुं शक्यत्वात्। अवा-न्तरमहत्त्ववत्त्वेन वा कार्य्यत्वानुमानस्य सुकरत्वात्। नापिविरुद्धो हेतुः साध्यविपर्य्य यव्याप्तेरभावात्, नाप्यनैकान्तिकः,पक्षादन्यत्र वृत्तेरदर्शनात्। नापि कालात्ययोपदिष्टः, बाध-कानुपलम्भात्। नापि सत्प्रतिपक्षः, प्रतिभटादर्शनात्। ननुनगादिकमकर्तृकं शरीराजन्यत्वात् गगनवदिति चेन्नैतत्परीक्षाक्षममीक्ष्यते नहि कठोरकण्टीरवस्य कुरङ्गशावः प्र-तिभटो भवति अजन्यत्वस्यैव समर्थतया शरीरविशेषणवैय-[Page0739-b+ 38] र्य्यात्। तर्ह्यजन्यत्वमेव साधनमिति चेन्नासिद्धेः नापिसोपाधिकत्वशङ्काकलङ्काङ्कुरः सम्भवी अनुकूलतर्कसम्भवात्यद्ययमकर्तृकः स्यात् कार्य्योऽपि न स्यादिह जगति नास्त्येवतत्कार्य्यं नाम यत्कारकचक्रमवधीर्य्यात्मानमासादयेदित्ये-तदविवादम्। तच्चर्सवं कर्तृविशेषोपहितमर्य्यादं कर्तृत्वंचेतरकारकाप्रयोज्यत्वे सति सकलकारकप्रयोक्तृत्वलक्षणंज्ञानचिकीर्षाप्रयत्नाधारत्वम्। एवञ्च कर्तृव्यावृत्तेस्तदुप-हितसमस्तकारकव्यावृत्तावकारणककार्य्योत्पादप्रसङ्ग इतिस्थूलः प्रमादः। तथा निरटङ्कि शङ्करकिङ्करेण।
“अनुकूलेनतर्केण सनाथे सति साधने। साध्यव्यापकताभङ्गात् पक्षेनोपाधिसम्भव” इति। यदीश्वरः कर्त्ता स्यात्तर्हि शरीरीस्यादित्यादिप्रतिकूलंतर्कजातं जागर्त्तीति चेदीश्वरसिद्ध्य-सिद्धिभ्यां व्याघातात् तदुदितमुदयनेन!
“आगमादेःप्रमाणत्वे बाघनादनिषेधनभ्। आभासत्वे तु सैवस्यादाश्रयासिद्धिरुद्धटा” इति। न च विशेषविरोधःशक्यशङ्कः ज्ञातत्वांज्ञातत्वविकल्पपराहतत्वात्। तदेतत्परमेश्वरस्य जगन्निर्म्माणे प्रवृत्तिः किमर्था स्वार्थापरार्था वा आद्येऽपीष्टप्राप्त्यर्था अनिष्टपरिहारार्था वानाद्यः अवाप्तसकलकामस्य तदनुपपत्तेः अतएव नद्वितीयः। द्वितीये प्रवृत्त्यनुपपत्तिः कः खलु परार्थंप्रवर्त्तमानं प्रेक्षावानित्याचक्षीत। अथ करुणया प्रवृत्त्यु-पपत्तिरित्याचक्षीत कश्चित् तं प्रत्याचक्षीत तर्हि सर्व्वान्प्राणिनः सुखिन एव सृजेदीश्वरः न दुःखशवलान्करुणाविरोधात्। स्वार्थमनपेक्ष्य परदुःखप्रहरणेच्छा हिकारुण्यं तस्मादीश्वरस्य जगत्सर्जनं न युज्यते। तदुक्तंभट्टाचार्य्यैः।
“प्रयोजनमनुद्दिश्य न मन्दो हि प्रवर्त्तते। जगच्च सृजतस्तस्य किं नाम न कृतं भवेदिति”। नास्ति-कशिरोमणे! तावदीर्ष्याकषायिते चक्षुषी निमील्य परि-भावयतु भवान् करुणया प्रवृत्तिरस्त्येव न च निसर्गतःसुखश्नयसर्गप्रसङ्गः, सृज्यप्राणिकृतसुकृतदुष्कृतपरिपाकविशे-षाद्वैचित्र्योपपत्तेः न च सातन्त्र्यभङ्गः शङ्कनीयः स्वाङ्गंस्वव्यवधायकं न भवतीति न्यायेन प्रत्युत तन्निर्वाहात् एकएव रुद्रो नद्वितीयोऽवतस्थे” इत्यादिरागमस्तत्र प्रमाणम्। यद्येवं तर्हि परस्पराश्रयबाधव्याधिं समाधत्स्वेति चेत्तस्यानुत्थानात् किमुत्पत्तौ परस्पराश्रयः शङ्क्यते ज्ञप्तौवा। नाद्यः आगमस्येश्वराधीनोत्पत्तिकत्वेऽपि परमेश्वरस्यनित्यत्वेनोत्पत्तेरनुपपत्तेः नापि ज्ञप्तौ परमेश्वरस्य आगमा-धीनज्ञप्तिकत्वेऽपि तस्यान्यतोऽवगमात् नापि तदनित्यत्व[Page0740-a+ 38] ज्ञप्तौ आगमानित्यत्वस्य तीव्रादिधर्म्मोपेतत्वादिना सुगम-त्वात्। तस्मान्निवर्त्तकधर्म्मानुष्ठानवशादीश्वरप्रसादसिद्धा-वभिमतेष्टसिद्धिरिति सर्व्वमवदातम्”। अस्याश्चात्मतत्त्व-ज्ञानहेतुत्वादात्मविद्यात्वम्।
“त्रयी चान्वीक्षिकी चैव वार्त्ताच भरतर्षभ! दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः” शा॰ प॰

५९ अध्या॰।
“त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिञ्चशाश्वतीम्।
“आन्वीक्षिकीञ्चात्मविद्यां वार्त्तारम्भांश्च लोकतः” मनुः
“तत्रौपनिषदं तात परिशेषन्तु पार्थिव। मथ्नामिमनसा तत्त्वं दृष्ट्वा चान्वीक्षिकीं पराम्” भा॰ शा॰ प॰।
“आन्वीक्षिकी कोशलानामिति” गीता।
“सेयसान्वीक्षिकीविद्या प्रमाणादिभिः पदार्थैः प्रविभज्यमाना। प्रदीपःसर्वविद्यानामुपायः सर्वकर्मणाम्। आश्रयः सर्वधर्माणांविद्योद्देशे परीक्षिता” पक्षिलस्वामी। अन्वीक्षा शील-मस्याः तस्यै हितं वा ठक्।

२ दुर्गायाञ्च
“आत्मवेदनशीलत्वादन्वीक्षणपराऽथ वा। अन्वीक्षाकारणत्वाद्वा तस्मा-दान्वीक्षिकी स्मृता” देवीपु॰ तंन्निरुक्तिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आन्वीक्षिकी¦ f. (-की) Logical philosophy, metaphysics. E. अनु according to, ईक्ष् to see, ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आन्वीक्षिकी [ānvīkṣikī], [अन्वीक्षा प्रयोजनमस्याः ठञ्]

Logic, logical philosophy.

Metaphysics (आत्मविद्या q. v.); आन्वीक्षिक्यात्मविद्या स्यादीक्षणात्सुखदुःखयोः । ईक्षमाणस्तया तत्त्वं हर्षशोकौ व्युदस्यति ॥ Kām.2.11; आन्वीक्षिकीश्रवणाय Māl.1; Ms.7.43; (न्याय आन्वीक्षिकी पञ्चाध्यायी गौतमेन प्रणीता Madhusūdhana).

Philosophy of Sāṅkhya, Yoga and Lokāyata; साङ्ख्यं योगो लोकायतं चेत्यान्वीक्षिकी Kau. A.1.2. cf. also आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्चेति विद्याः Kau. A.1.2. आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता Kau. A.1.2; Bhāg.7.12.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आन्वीक्षिकी f. (fr. अन्व्-ईक्षा) , logic , logical philosophy , metaphysics MBh. Mn. Gaut. etc.

"https://sa.wiktionary.org/w/index.php?title=आन्वीक्षिकी&oldid=490894" इत्यस्माद् प्रतिप्राप्तम्