सामग्री पर जाएँ

आप्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आप्यम्, त्रि, (अपां विकारः तस्य विकारैत्वणत्वात् स्वाथे ष्यञ् ।) जलविकारजं । फेनादि । तत्पर्य्यायः । अम्मयं २ । इत्यमरः ॥ (यथा हरिवंशे । “आप्याः प्रभूता ऋभवः पृथुकाश्च दिवौकसः । लेखा नाम महाराज पञ्च देवगणाः स्मृताः” ॥ “तस्मादाप्यो रसः परस्परसंसर्गात् परस्परानु- ग्रहात् परस्परानुप्रवेशाच्च सर्व्वेषु सर्व्वेषां सा- न्निध्यमस्त्युत्कर्षापकर्षात्तु ग्रहणं” । इति सुश्रुतः ॥)

आप्यम्, क्ली, वाप्यवृक्षः । इत्यमरटीकायां रायमुकुटः । कुड इति भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=आप्यम्&oldid=115676" इत्यस्माद् प्रतिप्राप्तम्