सामग्री पर जाएँ

आप्लवव्रतिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आप्लवव्रती, [न्] पुं, (आप्लवते प्लुङ् + अच्, आप्लव- श्चासौ व्रती च । आप्लवः स्नानं तत्र व्रती नित्यस्ना- यीति मुकुटः ।) आप्लुतव्रती । स्नातकब्राह्मणः । इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आप्लवव्रतिन्¦ पु॰ आप्लवः समावर्त्तनस्नानमेव व्रतमस्त्यस्यइनि। स्नातके गृहस्थभेदे यस्तु वेदानघीत्य दारपरिग्रहार्थं कृतसमावर्त्तनस्नानः दारलाभात् प्राक् स्मार्त्तंबतविशेषमाचरति तादृशे द्विजे
“अलाभे चैव कन्यायाःस्नातकव्रतमाचरेत्” स्मृत्युक्तं व्रतं च दर्शितं विधानपा॰यथा
“स्नात्वैवं विधिना काले मासमात्रमपि द्विजः। [Page0751-b+ 38] अनाश्रमी न तिष्ठेत्तु सुखस्थस्तु प्रयत्नवान्। निःस्वोरोगा-र्दितोभीत आपन्नोऽन्यैश्च कारणैः। स्नातकः प्रयतोवह्रिं न त्यजेदिति वै श्रुतिः। नित्यदा ब्रह्मचारी स्यात्पञ्चयज्ञपराथणः। जपतीर्थरतोवा स्यात् स्नातकोलौल्यवर्ज्जितः। श्राद्धे निमन्त्रितो गच्छेत् कुर्य्यात् षट्कर्म्मच द्विजः। येन केनाप्युपायेन व्रतचर्य्यां न लोपयेत्। शक-लान् जुहुयात् प्रातः” स्मृतिः अत्र प्रातरितिविशेषणात्न सायम्। तेन प्रातः सन्ध्यामुपास्याग्निकार्य्यं कृत्वाशकलहोमः कार्य्यः तन्मन्त्राश्च तैत्तिरीयारण्ये पठिताः
“दैवकृतस्यैनसोऽवयजनमसि स्वाहेत्यादिकाः। तदीयहोमद्रव्यविशेषोबौधायनेनोक्तः
“सएष उपनयनप्रभृतिव्याहुतिभिः षडिभरेव समिद्भिः आ समावर्त्तनात्। समावर्त्तनप्रभृति आज्येनैव आ पाणिग्रहणात्। पाणिग्रहणप्रभृति व्रीहिभिर्यवैर्वा व्यस्तेनेकेन पञ्चाहुतीर्जुहुयात्”
“वैश्वदेवं गृहस्थस्य प्रत्यहारम्भणं भवेत्। स्नातकेनापि तत्कार्य्यं पृथक्पाको गृहे यदि” शौनकः।
“यज्ञोपवीतद्वितयं सोदकं च कमुण्डलुम्। छत्रञ्चोष्णीष-माले च पादुके चाप्युपानहौ। रौक्मे च कुण्डले वेणुंकृत्तकेशनखः शुचिः। स्याध्याये नित्ययुक्तः स्यात् बहिर्मा-ल्यञ्च धारयेत्। शुक्लाम्बरधरोनित्यं सुगन्धः प्रियदर्शनः। न जीर्ण्णमलवद्वासा भवेच्च विभवे सति। न रक्तमुल्वणंचान्यधृतं वासो न कन्थिकाम्” कूर्म्मपु॰।
“उपानहौ चवासश्च धृतमन्यैर्न धारयेत्। उपवीतमलङ्कारं स्रजं क-नकमेव च” मनुः।
“स्नातः समुद्वहेत् कन्यां प्रव्रजेत्तद-निच्छुकः। वनस्थो वा भवेद्विप्रः सुखस्थो विधिना शुचिः। अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः। आश्रमेणविना तिष्ठन् प्रायत्तीयते हि सः” इति विधा पा॰ धृतास्मृतिः। तस्य कन्यालाभार्थं काम्यजप उक्त ऋग्विधाने
“सुषुमं प्रजपेत् सूक्तमथ सम्यक् शिवालये। अयुतं तुजपेत् कन्यां षण्मासात् लभते नर” इति। ( अत्रानाश्रमदोषविषये किञ्चिदुच्यते स्नातको हि गृह-स्थभेदोद्विजातिमात्रः समावर्त्तनस्नानस्य तेषामेव सम्भ-वात्। अतस्तद्विषयकमेवानाश्रमादिदोषोत्कीर्त्तनम्। तथा हि विधानपारिजातधृतयोः स्मृत्योः
“स्नात्वैव वि-धिना काले” इत्यादौ स्नातः समुद्वहेत् कन्यामित्यादौचोपक्रमे द्विजातिविषयकत्वावगमेन उपसंहारे अना-श्रमदोषकीर्त्तनं तद्विषयकमेव उपक्रमोपसंहारयोरेक-विषयकत्वौचित्यात्। एतेन
“स्वीकरोति यदा वेदं चरेद्वेद-[Page0752-a+ 38] व्रतानि च। ब्रह्मचारी भवेदूर्द्ध्वं ततः स्नातो भवेद्गृही। द्विविधो ब्रह्मचारी तु स्मृतः शास्त्रे मनीषिभिः। उप-कुर्व्वाणकस्त्वाद्यो द्वितीयो नैष्ठिकः स्मृतः। योगृहाश्रममस्थाय ब्रह्मचारी भवेत् पुनः। न यतिर्न वनस्थश्च सर्वा-श्रमविवर्ज्जितः। अनाश्रमी न तिष्ठेत्तु दिनमेकमपिद्विजः। आश्रमेण विना तिष्ठन् प्रायश्चित्तीयते हि सः। जपे होमे तथा दाने स्वाध्याये च रतस्तु यः। नासौ तत्-फलमाप्नोति कुर्व्वाणोऽप्याश्रमाच्च्युतः। त्रयाणामानुलोम्यं हि प्रातिलोम्यं न विद्यते। प्रातिलोम्येनयोयाति न तस्मात् पापकृत्तमः” दक्षवचनमपि वेदाध्य-यनोत्तरस्नातकानामेवोपक्रमे कीर्त्तनात् अन्ते च त्रयाणा-माश्रमाणामानुलोम्यविधानाच्च द्विजमात्रविषयकम् यत्तुतद्वाक्यैकदेशमादाय रघुनन्देन अनाश्रमी न तिष्ठेत्त्वित्यादिवाक्यं शूद्रोपलक्षणपरमुक्तं न तद्युक्तमुपक्रमोपसंहाराभ्यांद्विजमात्रविषयकत्वनिश्चयात्। किञ्च त्रयाणामानु-लोम्योक्तेरपि न शूद्रविषयकत्वं तत्प्रदर्शितवामनपुराणवचने शूद्रस्यैकमात्राश्रमावगतेः तथा च येषामेवआश्रमचतुष्टयं तत्त्रयं तद्द्वयं वा सम्मवति तेषामेवानुलोम्यप्रातिलोम्यसम्भव एकमात्राश्रमस्य शूद्रस्यः कथन्तरामानु-लोम्म्यप्रातिलोम्यसम्भवः। एतेन
“व्रतेषु लोपकोयश्च आ-श्रमाद्विच्युतश्च यः। संदंशयातनामध्ये पततस्ताबुभावपि” इति भविष्यपुराणवचनेन दक्षस्मृतेः सङ्कोचनमपि परास्तम्
“श्रुतिस्मृतिपुराणानां विरोधो यत्र दृश्यते। तत्र श्रौतंप्रमाणं तु तयोर्द्वैधे स्मृतिर्वरेति” विधान पा॰ धृतव्यास-वाक्येन पुराणापेक्षया स्मृतेर्वरत्वकीर्त्तनेन पुराणेन स्मृते-र्बाधस्यायोग्यत्वात्
“विरोधे त्वनपेक्षमसति ह्यनुमानमिति” जैमिनिसूत्रेण श्रुतिस्मृत्योर्बिरोधे स्मृतेराप्रमाण्यस्येवस्मृतिपुराणयोर्विरोधेऽपि पुराणस्याप्रमाण्यस्यैवोचितत्वात्वस्तुतः नात्र विरोधः
“स्पष्टस्य तु विधेर्नान्यैरुपसंहारइष्यते” इतिन्यायेनार्थक स्मृतौ द्विजपदस्य स्पष्टतया अ-न्योपसंहारकत्वासम्भवेन पौराणिकयच्छब्दस्यास्पष्टार्थकतयातत्परत्वकल्पनेनैवोपपत्तौ विरोधाभावात् तथा चभविष्यपुराणवचनमेव द्विजातिविषयकं न शूद्रविषय-कमित्येव कल्पनीयमिति। अत्रेदं विवेक्तव्यं किं पौरा-णिकास्पष्टार्थकयच्छब्दस्य यावद्वर्ण्णविषयकत्वमुत स्पष्टा-र्थकस्मृत्येकवाक्यतया त्रैवर्णिकमात्रविषयकत्वं तत्र पुरा-णेन स्मृतेर्बाधायोगेन पौराणिकयच्छब्दस्यैव स्मृत्यु क्तत्रि-वर्ण्णपरत्वकल्पनं युक्तमित्य त्पश्यामः। यदपि
“चत्वार आश्र-[Page0752-b+ 38] माश्चैव ब्राह्मणस्य प्रकीर्त्तिताः। ब्रह्मचर्य्यञ्च गार्हस्थ्यं वान-प्रस्थञ्च भिक्षुकम्। क्षत्रियस्यापि कथिता आश्रमास्त्रयएव हि। ब्रह्मचर्य्यञ्च गार्हस्थ्यमाश्रमद्वितयं विशः। गार्हस्थ्यमुचितं त्वेकं शूद्रस्य क्षणमाचरेत्” वाम॰ पु॰वाक्यं तत् शूद्रस्य गार्हस्थ्यमात्राधिकारबोधकम्। न तु तदकरणे पापजनकताबोधकमपि उचितमितिपदस्वारस्यात् उचितपदस्य योग्यार्थकत्वात् तेनैव उद्वा॰त॰ क्षणमुत्सवमिति व्याख्यानेन तदीयगृहस्थाश्रमस्योत्सवार्थकत्वोक्त्या काम्यत्वसूचनात्
“चत्वारिंशद्वत्सराणांसाष्टानाञ्च परे यदि। स्त्रिया वियुज्यते कश्रित्स तु रण्डाश्रमी मतः। अष्टाचत्वारिंशदब्दं वयोयावन्नपूर्य्यते। भार्य्यापुत्रवियुक्तस्य नास्ति यज्ञेऽधिका-रितेति” भविष्यपुराणवचनमपि यज्ञेऽधिकारिताप्रति-षेधात् द्विजविषयकमेव शूद्रस्य यज्ञेऽनधिकारात्। द्विजातीनामेव यज्ञीयाज्यावेक्षणादेः पत्रीसाध्यतयापत्न्यभावे कथमाज्यावेक्षणाद्यङ्गसिद्धिरिति युक्तः तेषामन-धिकारः” यज्ञाधिकारे शूद्रस्य पर्य्युदस्तया तदधिकारा-भावकथनमनर्थकं स्यात्। अतो येषामेव यज्ञाधिकारस्तेषा-मेव भार्य्याराहित्ये अनधिकारिताप्रतिपादने वचनं सार्थ-कम्। तेन तद्द्विजविषयकमेव। एवं प्रागुक्तदक्षवचने जपे-होमे तथा दाने स्वाध्याये निष्फलत्वकथनमपि उप-क्रमोपसंहाराभ्यां होमस्वाध्याययोर्द्विजातीनामेव सम्भ-वाच्च द्विजातिविषयकमेव। अतः शूद्राणांविवाहस्य उत्-सवार्थतया काम्यत्वेनाकरणे न पत्यवाय इति सुस्थितम्। एतेन बहुविवाहवादे मया दक्षवचनस्थ द्विजपदस्योपल-क्षणार्थकत्वं यत् खण्डितं तत् सुस्थितमेवेति द्रष्टव्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आप्लवव्रतिन्¦ m. (-ती) An initiated householder, one who has passed through the first order, that of the Brahmachari, and is admitted into the second. E. आङ् before प्लव bathing, ब्रतिन् performer of a व्रत, or religious obligation; bathing being part of the prescribed ceremony.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आप्लवव्रतिन्/ आ-प्लव--व्रतिन् m. one whose duty is to perform the समावर्तनablution (on returning home after completing his studies) , an initiated householder L.

"https://sa.wiktionary.org/w/index.php?title=आप्लवव्रतिन्&oldid=216807" इत्यस्माद् प्रतिप्राप्तम्