आभीलम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आभीलम्, क्ली, (आ समन्तात् भियं लाति जनयति । आङ् + भी + ला + क ।) कष्टं । कृच्छ्रं । इत्यमरः ॥ (भयावहः, भीतिजनकः । यथा मेदिनी, -- “आभीलं न द्वयोः कृच्छ्रे वाच्यलिङ्गं भयानके” ॥ यथा महाभारते, -- “रात्रौ निशीथे स्वाभीले गतेऽर्द्धसमये नृप । प्रचारे पुरुषादानां रक्षसां घोरकर्म्मणाम्” ॥)
