आभ्युदयिकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आभ्युदयिकम्, त्रि, (अभ्युदयः प्रयोजनम् अस्य । अभ्यु- दय् + ठक् ।) अभ्युदयनिमित्तश्राद्धादि । यथा । अथाभ्युदयिकश्राद्धं । तत्र गोभिलः । आभ्युदयिके श्राद्धे युग्मानाशयेत् प्रदक्षिणमुपचारः ऋजवो दर्भाः यवैस्तिलार्थः । सम्पन्नमिति तृप्तिप्रश्नः । दधिवदराक्षतमिश्राः पिण्डाः नान्दीमुखाः पितरः प्रीयन्तामिति दैवे वाचयित्वा नान्दीमुखेभ्यः पि- तृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च प्रीयन्तां न स्वधाञ्च प्रयुञ्जीत इति । अभ्युदयो विवाहादिस्त- दर्थं श्राद्धं आभ्युदयिकं । आभ्युदयिके अभ्युदय- निमित्तके । अभ्युदयः इष्टलाभः । स च भूत- भविष्यद्भेदेन द्विबिधः । तत्र भूतं पुत्त्रजन्मादि भविष्यत् विवाहादि । एवञ्च श्राद्धविवेकादौ श्राद्धभेदगणने वृद्धिश्राद्धत्वेन कर्म्माङ्गत्वेन च यदुभयत्वमुक्तं तदुभयमेवात्राभ्युदयिकत्वेनोपपन्नं तेनाभिलापे आभ्युदयिकश्राद्धमिति प्रयोज्यं । अत्र यवैस्तिलार्थ इत्यनेन पार्ब्बणश्राद्धप्राप्ततिलस्थाने यवविधानात् आभ्युदयिकस्यापि पार्ब्बणप्रकृतित्वं प्रतीयते । अन्यथा तिलार्थ इत्युपादानं व्यर्थं स्यात् । ततश्च पार्ब्बणप्रकृतिकत्वेन पित्र अयुग्म- ब्राह्मणप्राप्तौ तन्निराशाय पितृपक्षे ब्राह्मणयुग्म- त्वोपदेशः दैवे युग्मत्वस्य पार्ब्बणप्राप्तत्वान्नतदर्थो- पदेशः । “अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणं” । इति याज्ञवल्क्यवचनेन देवकर्म्मानन्तरं पितृ- कर्म्मकरणे प्राप्तवामोपचारनिराशाय प्रदक्षिण- मुपचारः तेन देवपितृकर्म्मकरणाय दक्षिणावर्त्तेन गन्तव्यं । द्विगुणभुग्नत्वनिराशाय ऋजवो दर्भा इति ऋजुत्वोपदेशः । तृप्ताः स्थ इत्यनेन तृप्तिप्रश्ने सम्पन्नमिति प्रष्टव्यं । योग्यत्वात् सुसम्पन्नमिति प्रोक्ते इति वक्ष्यमाणछन्दोगपरिशिष्टवचनाच्च सु- सम्पन्नमित्युत्तरं । एतद्दर्भमयब्राह्मणपक्षेप्यबाधि- तत्वाद्वाच्यं । दधिवदराक्षतमिश्रा इत्यनेन दध्या- दिमिश्रणमावश्यकं । अक्षतो यवः । “अक्षताश्च यवाः प्रोक्ता भृष्टा धाना भवन्ति ते” । इति भट्टनारायणधृतात् । अतएव वक्ष्यमाणछन्दो- गपरिशिष्टवचने अक्षतमनुक्त्वा संयोज्य यवकर्क्क- न्धुदधिभिरिति निःसन्दिग्धमुक्तं । स्वधावाचनप्रश्न- निवृत्तये नान्दीमुखाः पितरः प्रीयन्तामित्युप- देशः । तत्र स्वधां वाचयिष्ये इति पितृपक्षएव प्रत्रः अतएव तन्निष्टत्तये दैव इति आदौ देवपक्षे नान्दीमुखाः पितरः प्रीयन्तामिति प्रश्नः । उत्तरञ्च प्रीयन्तामिति । ततः पितृपक्षे स्वधावाचनस्थानी- यत्वेन वृद्धप्रमातामहेभ्यश्च इति चकारनिर्देशेन च स्वधोच्यतामितिवत् प्रत्येकमेव प्रीयन्तामिति पृच्छेत् प्रत्युत्तरञ्च अस्तु स्वधा इतिवत् तन्त्रेणैव प्रीयन्तामिति । अत्र नान्दीमुखाः पितर इत्यादि नान्दीमुखेभ्यः पितृभ्य इति निर्देशेन च नान्दी- मुखं पितृगणमिति विष्णुपुराणेन च मातामहे- भ्यश्च तथा नान्दीमुखेभ्य एव च इति व्रह्मपुराणेन च नान्दीमुखपदश्रुतेस्तद्विशेषणविशिष्टस्यैवाभ्यु- दयिके देवतात्वं ततश्चात्रापि प्रीयन्तामितिवन्ना- न्दीमुखेभ्यः पितामहेभ्य इति वाच्यं । न तु नान्दी- मुखविशेषणशून्यं पितामहेभ्यः प्रीयन्तामिति पितृदयितोक्तं युक्तम् । नान्दीमुखेभ्यः पितृभ्य प्रीयन्तामित्यत्रान्वितस्य नान्दीमुखेभ्य इत्यस्य पितामहेभ्य इत्यादावनन्वयित्वेन प्रागुक्तयुक्त्या प्राप्तस्य नान्दीमुखविशेषणस्य पितामहेभ्य इत्या- दावपि प्राप्तेः । एतेनात्र मैथिलोक्तं तन्त्रता- विधानमपि निरस्तं । पार्ब्बणवत् स्वधाः प्राप्तेः तन्निराशाय न स्वधां प्रयुञ्जीतेति अत्र विशेषादभिलापे मन्त्रे च स्वधापदनिवृत्तिः । अभिलापे नम इति ब्रूयात् । “अमुकामुकगोत्रै- तत् तुभ्यमन्नं स्वधा नमः” । इति ब्रह्मपुराणे श्राद्धे स्वधा नमः पदयोस्त्यागबोधकत्वेन विकल्पाद- त्राभ्युदयिके स्वधानिषेधान्नम एवान्वेति । पितॄ- नप्यत्र देववदित्यनेनापि पार्ब्बणोक्तविश्वदेव- पक्षीयनम एव प्रतीयते न तु मैथिलोक्तं स्वाहेति । श्राद्धे तथा प्रयागे प्रमाणाभावात् । एवमाश्वला- यनगृह्ये यवोसीति मन्त्रे तु पुष्ट्या इति श्रुतेर्मन्त्र- मात्रे स्वधापदस्थाने पुष्टिपदप्रयोगः । इति श्राद्ध- तत्त्वं । अन्यत् नान्दीमुखशब्दे द्रष्टव्यं ॥
