आमम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आमम्, त्रि, (आम्यते ईषत्पच्यते । आ + अम + कर्म्मणि घञ् ।) पाकरहितं । का~चा इति भाषा । तत्पर्य्यायः । अपक्वं २ असिद्धं ३ असृतं ४ । इति रत्नमाला ॥ (“आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः” । इति वैद्यकचक्रपाणिसंग्रहः ॥ “मज्जत्यामागुरुत्वाद्विट् पक्वातूत्प्लबते जले । विनातिद्रवसङ्घातशैत्यश्लेष्मप्रदूषणात् ॥ परीक्ष्यैवं पुरा सामं निरामं वा सदोषिणां । विधिनोपाचरेत्सम्यक् पाचनेनेतरेण वा” ॥ चिकित्सा यथा, -- “चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च । व्योषं हिङ्खजमोदाञ्च चव्यञ्चैकत्र चूर्णयेत् ॥ गुडिका मातुलुङ्गस्य दाडिमस्य रसेन वा । कृता विपाचयन्त्यामन्दीपयन्त्याशु चाननं” ॥ इति चित्रकाद्यगुडिकाः । इति चरकः ॥)
आमम्, क्ली, षट्प्रकाराजीर्णरोगमध्ये रोगविशेषः । तस्य कारणरूपे । “आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः । अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ॥ अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च । वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरं ॥ तत्रामे गुरुतोत्क्लेदः शोथो गण्डाक्षिकूटगः । उद्गारश्च यथाभुक्तमविदग्धः प्रवर्त्तते” ॥ इति निदानं ॥ अन्यच्च । भुक्तमन्नावशेषं यत् रसं भूयस्त्वपाचितं । गतमामाशये यस्मात्तस्मादामं तदुच्यते ॥ अन्नमन्नरसं केचित् केचिच्च मलसञ्चयं । प्रथमां दोषटुष्टिञ्च आममित्यभिधीयते” ॥ अपक्वं । यथा, -- “शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते । आमं वितुषमित्युक्तं स्विन्नमन्नमुदाहृतं” ॥ इति श्राद्धतत्त्वधृतवशिष्ठवचनं ॥ रोगविशेषः तल्लक्षणादि अजीर्णशब्दे द्रष्टव्यं ॥ (“उष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितं । दुष्टमामाशयगतं रसमामं प्रचक्षते ॥ आमेन तेन संपृक्ता दोषादूष्याश्च दूषिताः । सामाइत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः ॥ स्रोतोरोधबलभ्रंशगौरवानिलमूढताः । आलस्यापक्तिनिष्ठीवमनोभेदारुचिक्लमाः ॥ लिङ्गं मलानां सामानां निरामाणां विपर्य्ययः” । इति चरकः ॥ “आमेऽजीर्ने तु बन्धश्चेत् क्षाराम्लं लघु शस्यते । पुष्पकासीशमिश्रं वा क्षीरेण लवणेन च । सदाडिमरसं सर्पिः पिबेद्वातेऽधिके सति” ॥ इति च चरकः ॥)
