आमलकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आमलकम्, क्ली, (आ + मल + क्वुन् शिल्पिसंज्ञयोः । आमलक्याः फलं । फलेलुगिति विकारावयवप्रत्य- यस्य लुक् ॥) आमलकीविशेषः । काठ आमला- इति भाषा । तत्पर्य्यायः । काष्ठधात्रीफलं २ क्षुद्रा- मलकं ३ क्षुद्रजातीफलं ४ । अस्य गुणाः । कषा- यत्वं । कटुत्वं । शीतत्वं । पित्तास्रदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ (“तद्वदामलकं शीतमम्लं पित्तकफापहं” । इति वाभटः ॥ “विद्यादामलके सर्व्वान् रसान् लवणवर्ज्जितान् । स्वेदमेदःकफोत्क्लेदपित्तरोगविनाशनं” ॥ इति चरकः ॥)
