सामग्री पर जाएँ

आमवातः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आमवातः, पुं, (आमोऽपाकहेतुः वातः ।) स्वनामख्यात- रोगविशेषः । तस्य निदानपूर्ब्बिकां संप्राप्तिमाह । “विरुद्धाहारचेष्टस्य मन्दाग्नेर्निश्चलस्य च । स्निग्धं भुक्तवतो ह्यन्नं व्यायामं कुर्व्वतस्तथा ॥ वायुना प्रेरितो ह्यामः श्लेष्मस्थानं प्रधावति । तेनात्यर्थमपक्वोऽसौ धमनीभिः प्रपद्यते ॥ वातपित्तकफैर्भूयो दूषितः सोऽन्नजो रसः । स्रोतांस्यभिष्यन्दयति नानावर्णोऽतिपिच्छिलः ॥ जनयत्यग्निदौर्ब्बल्यं हृदयस्य च गौरवं । व्याधीनामाश्रयो ह्येष आमसंज्ञोऽतिदारुणः ॥ विरुद्धाहारचेष्टस्य विरुद्धाहारः क्षीरमत्स्यादि । विरुद्धा चेष्टा मुक्त्वा व्यायामादि । तद्युक्तस्य । निश्चलस्य निर्व्व्यापारस्य । “स्निग्धं भुक्तवतो ह्यन्नं व्यायामं कुर्व्वतः” इति मिलितो हेतुः । श्लेष्म- स्थानं आमाशयसन्ध्यादि । तेन श्लेष्मस्थानगतेन अत्यर्थं अपक्वः । पित्तस्थानगमने तु पक्वोऽभ- विष्यदित्यभिप्रायः । असौ आमः धमनीभिः प्रपद्यते धमनोमार्गैश्चलति । भूयो दूषितः अति- शयेन दूषितः । सोऽन्नजो रसः । आमः स्रो- तांसि अभिष्यन्दयति संस्तभ्य रसवहशिराव- रोधं कृत्वा स्रोतांसि गुरूणि करोति । नानावर्णः वातादिजनितवर्णभेदान्नानावर्णः ॥ * ॥ आमस्य लक्षणमाह । “अजीर्णात् यो रसो जातः सञ्चितो हि क्रमेण तै । आमसंज्ञां स लभते शिरोगात्ररुजाकरः” ॥ अजीर्णात् भुक्तादजीर्णात् ॥ * ॥ आमवातस्य सा- मान्यलक्षणमाह । “युगपत् कुपितावेतौ त्रिकसन्धिप्रवेशकौ । स्तब्धञ्च कुरुते गात्रमामवातः स उच्यते” ॥ एतौ वातकफौ । त्रिकसन्धिप्रवेशकौ वेदनयेति बोद्धव्यौ ॥ * ॥ तन्त्रान्तरे तस्य लक्षणान्तरमाह । “अङ्गमर्दोऽरुचिस्तृष्णास्यालस्यं गौरवं ज्वरः । अपाकः शूलताङ्गानां आमवातस्य लक्षणम्” ॥ * ॥ अस्यैवातिवृद्धस्य लक्षणमाह । “स कष्टः सर्व्वरोगाणां यदा प्रकुपितो भवेत् । हस्तपादशिरोगुल्फत्रिकजानूरुसन्धिषु ॥ करोति सरुजं शोथं यत्र दोषः प्रपद्यते । स देशो रुज्यतेऽत्यर्थं व्याबिद्ध इव वृश्चिकैः ॥ जनयेत् सोऽग्निदौर्ब्बल्यं प्रसेकारुचिगौरवम् । उत्साहहानिं वैरस्यं दाहञ्च बहुमूत्रतां ॥ कुक्षौ कठिनतां शूलं तथा निद्राविपर्य्ययं । तृट्छदिश्रममूर्च्छाश्च हृद्ग्रहं विडविबद्धतां ॥ जाड्यान्त्रकूजमानाहं कष्टांश्चान्यानुपद्रवान्” । यदा प्रकुपितो भवेत् प्रकर्षेण कुपितः स्यात्तदा वक्ष्यमाणानुपद्रवान् करोति । तानाह हस्तेत्यादि । यत्र दोषः दुष्ट आमः प्रद्यते गच्छति । जाड्यं अकर्म्मण्यत्यं । अन्यानुपद्रवान् कलायखञ्जत्वादीन् प्रस्थमेरण्डतेलस्य प्रस्थोऽम्बु शतपुष्पजं । काञ्जिकं द्विगुणं दत्त्वा मस्तु च द्विगुणं तथा ॥ एतत् संभृत्य संभारं शनैर्मृद्वग्निना पचेत् । सिद्धमेतत् प्रयोक्तव्यमामवातहरं परं ॥ पाने चाम्भञ्जने वस्तौ कुरुतेऽग्निबलं भृशं । वातार्त्ते वंक्षणे शूले कटीजानूरुसन्धिजे ॥ तथा हृत्पार्श्वजे शूले शस्तं श्लेष्मणि पीडिते । अन्यांश्चानिलजान् रोगान् नाशयत्याशु देहिनां” वृहत्सैन्धवाद्यं तैलं । १५ । “दधिमत्स्यगुडक्षीरपोतकीमाषपिष्टकं । वर्जयेदामवातार्त्तो गुडमांसमनूपजं” ॥ इत्यामवाताधिकारः । इति भावप्रकाशः ॥ (आत्रेयौवाच । “लक्षणं शृणु पुत्त्र ! त्वं समासेन वदाम्यहं । गुर्व्वन्नाहारपुष्टेन मन्दाग्नेश्च व्यवायिनः ॥ तर्पितैः कन्दशाकैस्तु आमोवायुसमीरितः । श्लेष्मस्थाने प्रपच्यैव जायते बहुवेदनः ॥ आमातिसारो वर्त्तेत सन्धौ शोफः प्रजायते । जडत्वञ्चैव गात्राणां बलासपतनं मुखे ॥ पृष्ठमन्यात्रिकेजातवेदनार्त्तोऽपि सीदति । अङ्गं वैकल्यमायाति आमवाते भिषग्वर” ! ॥ चिकित्सा यथा ॥ * ॥ “तस्य नो स्नेहनं कार्य्यं पाचनञ्च विधीयते । आमं संक्षयते प्राज्ञैः चतुर्धा भेदलक्षणैः” ॥ विष्टम्भ्यामलक्षणं यथा ॥ * ॥ “विष्टम्भी गुल्मकृन्मेही आमः पक्वाम एव च । सर्व्वाङ्गगो भवेच्चान्यो वक्ष्ये तस्यापि लक्षणं ॥ विष्टम्भो गुरु चाध्मानं वस्तिशूलञ्च जायते । तस्यापि पाचनं कार्य्यं स्नेहनञ्चैव कारयेत्” ॥ गुल्मशङ्क्यामलक्षणं यथा ॥ * ॥ “जठरं गर्ज्जते यस्य गुल्मवत् परिपीड्यते । कटीदेशे जडत्वञ्च आमगुल्माभिशङ्कितः ॥ तस्यादौ लङ्घनानि स्युर्ज्ञात्वा देहबलाबलं । पाचनं नैव कर्त्तव्यं गुल्मपाके विमूर्च्छति ॥ पाचिते चापि गुल्मामे तदाशु मरणं ध्रुवम्” । स्नेह्यामलक्षणं यथा ॥ * ॥ “यस्य च स्निग्धता गात्रे जाड्यं मन्दाग्निको वली । स्नेहामो विजलो यस्य स्नेहीवामः प्रकीर्त्तितः ॥ तस्य नो स्नेहनं कार्य्यञ्चोपवासञ्च कारयेत् । पाचनञ्चैव कर्त्तव्यमामञ्चैवातिसारयेत्” । आमस्य लक्षणं यथा ॥ * ॥ “यस्य शोफाननं जाड्यं तथा चैव घनोदरं । अरुच्यामातिसारश्च सचासाध्यो विजानता ॥ प्रत्याख्येया क्रिया कार्य्या जीवितस्यापि संशये । पाचनं पाचितं ज्ञात्वा तस्माच्चूर्णानि दापयेत्” । चिकित्सा यथा ॥ * ॥ “आमवाते कणायुक्तं दशमूलीजलं पिबेत् । गुडूची नागरं पथ्या चूर्णमेतद्गुडान्वितं ॥ धान्यनागरराजाम्लदेवदारुवचाभयाः । पाचनञ्चामवाते च श्रेष्ठमेतत्सुखावहं” ॥)

"https://sa.wiktionary.org/w/index.php?title=आमवातः&oldid=115776" इत्यस्माद् प्रतिप्राप्तम्