सामग्री पर जाएँ

आमातीसारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आमातीसारः, पुं, (आमरोगेण कृतः अतीसारः ।) षट्प्रकारातीसारमध्यें रोगविशेषः । तस्य संप्राप्तिरूपे । अन्नाजीर्णात् प्रद्रताः क्षोभयन्तः कोष्ठं दोषा धातुसंधान् मलांश्च । नानावर्णं नैकशः सारयन्ति शूलोपेतं षष्ठमेनं वदन्ति ॥ संसृष्टमेभिर्दोषैस्तु न्यस्तमप्स्ववसीदति । पुरीषं भृशदुर्गन्धि पिच्छिलं चामसंज्ञितं” ॥ इति निदानं ॥ (चिकित्सा यथा, -- “न तु संग्रहणं दद्यात् पूर्ब्बमामातीसारिणे । दोषाह्यादौ रुध्यमाना जनयन्त्यामयान् बहून् ॥ शोथपाण्ड्वामयप्लीहकुष्ठगुल्मोदरज्वरान् । दण्डकालसकाध्मानग्रहण्यर्शोगदांस्तथा ॥ क्षीणधातुबलार्त्तस्य बहुदोषोऽति निस्रुतः । आमोऽपि स्तम्भनीयः स्यात् पाचनान्मरणं भवेत्” इति वैद्यचक्रपाणिसंग्रहः ॥ * ॥ “अभया मस्तुना पिष्टा मधुशर्करयान्विता । आमातीसारं शमयेद् गुडामलकमेव च ॥ वत्सकं जीरके द्वे च दध्ना पिष्टन्तु दापयेत् । आमातिसारशमनं वस्तिशूलं नियच्छति” ॥ इति हारीतः ॥ * ॥ “तस्य रूपाणि विज्जल- मामविप्लुतमवसादितं । रूक्षं द्रवं सशब्दमशब्दं वा विबद्धमूत्रवातमतिसार्य्यते पुरीषं वायुश्चान्तः- कोष्ठस्य सशब्दशूलः तिर्य्यक् चरति विबद्ध इत्या- मातिसारः” । “आमे परिणते यस्तु विबद्धमतिसार्य्यते । सशूलपिच्छमल्पाल्पं बहुशः सप्रवाहिकं ॥ तं मूलकानां यूषेण वदराणामथापि वा । उपोदकायाः क्षोरिण्या यवाण्या वास्तुकस्य वा ॥ सुवर्च्चलायाश्चञ्चोर्व्वा शाकेनावल्गुजस्य वा । शठ्याः कर्कारुकाणां वा जीवन्त्याश्चिर्भटस्य वा ॥ लोणीकायाः सपाठाया शुष्कशाकेन वा पुनः । दधिदाडिमसिद्धेन बहुस्नेहेन भोजयेत्” ॥ इति चरकः ॥)

"https://sa.wiktionary.org/w/index.php?title=आमातीसारः&oldid=115778" इत्यस्माद् प्रतिप्राप्तम्