आमाशयः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आमाशयः, पुं, (आमस्य आशयः षष्ठीतत्पुरुषः ।) अपक्वस्थानं । तत्तु नाभिस्तनयोर्म्मध्यभागः । इति शब्दचन्द्रिका ॥ (यथा महाभारते, -- “पक्वाशयस्त्वधोनाभ्यामूर्द्ध्वमामाशयः स्थितः” । यथा च सुश्रुते, -- “पक्वामाशययोर्मध्ये शिराप्रभवा नाभिर्नाम” ॥ * ॥ “नाभिस्तनान्तरं जन्तोराहुरामाशयंबुधाः” । “आमाशयस्तु तदधः” इति भावप्रकाशः ॥ “तत्रामाशयः पित्ताशयस्योपरिष्टात् तत्प्रत्यनी- कत्वादूर्द्ध्वगतित्वात्तेजसश्चन्द्र इवादित्यस्य स चतु- र्व्विधस्याहारस्याधारः” । “आमाशयः श्लेष्मणः” । इति सुश्रुतः ॥)
