आम्रः

विकिशब्दकोशः तः
वृक्षे लम्बमानानि आम्रफलानि
पुष्पिताः आम्रवृक्षाः

संस्कृतम्[सम्पाद्यताम्]

  • आम्रः, आम्रवृक्षः, चूतः, रसालः, सहकारः, सुमदनः, कामशरः, कामसखः, कामाङ्गः, कामेष्टः, कीरेष्टः, कोकिलावसः, गन्धबन्धुः, चूतकः, दुर्गन्धः, नृपप्रियः, परपुष्टमहोत्सवः, पलालदोहदः, पिकबौधुः, पिकरागः, पिकवल्लभः, फलश्रेष्ठः, फलोत्पतिः, प्रियाम्बुः, मधुद्रुमः, मधुदूतः, मध्वावासः, मध्यगन्धः, मदिरासखः, महाकालः, माकन्दः, मन्मथालयः, लक्ष्मीशः, वसन्तदूतः, वेलः, वृद्धवाहनः, शरेष्टः, शिववल्लभः, श्र्यावतैलः, सचेष्टः, नास्तितदः।

नामः[सम्पाद्यताम्]

  • आम्रः नाम आम्रवृक्षः। आम्रः भारते अपि वर्धमानः कश्चन फलविशेषः। आम्रः (म्याङ्गिफेर इण्डिक) प्रपञ्चस्य सर्वेषु उष्णवलयप्रदेशेषु व्यापकतया दृश्यमानः वृक्षः।
  • चूतम्
  • रसालम्

अनुवादाः[सम्पाद्यताम्]

mnआम्रः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रः, पुं, (अम्यते अम गत्यादौ अमितभ्योदीर्घश्चेति रक् दीर्घश्च ।) फलवृक्षविशेषः । आम आ~व इति भाषा । तत्पर्य्यायः । चूतः २ रसालः ३ । अति- सौरभश्चेत् सहकारः ४ । इत्यमरः ॥ कामशरः । कामवल्लभः ६ कामाङ्गः ७ कीरेष्टः ८ माधवद्रुमः ९ भृङ्गाभीष्टः १० सीधुरसः ११ मधूली १२ हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम् । कषायानुरसं स्वादु वातघ्नं वृंहणं गुरु ॥ पित्ताविरोधि सम्पक्वमाम्रं शुक्रविवर्द्धनम् । वृंहणं मधुरं बल्यं गुरु विष्टभ्य जीर्य्यति” ॥ इति सुश्रुतः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रः [āmrḥ], [अम् गत्यादिषु रन् दीर्घश्च Uṇ.2.16.] The mango tree. -म्रम् The fruit of the mango tree. -Comp. -अस्थि The seed of the mango tree.

आवर्त N. of a tree (आम्रातक).

inspissated mango juice. (-र्तम्) the fruit of आम्रातक. -कूटः N. of a mountain; सानुमानाम्रकूटः Me.17. -गन्धकः N. of a plant (समष्ठिलवृक्ष; Mar. सुरण). -निशा N. of the plant Curcuma Reclinata (Mar. आंबेहळद). -पञ्चमः A particular Rāga in music.-पाली f. N. of a prostitute famous for her beauty.-पेशी [आम्रस्य पेशीव] a portion of dried mango fruit.-फलप्रपाणकम् A cooling drink made of mangoes. -वण [आम्रस्य वनम् cf. P.VIII.4.5.] a grove of mango trees; सो$हमाम्रवणं छित्त्वा Rām.

"https://sa.wiktionary.org/w/index.php?title=आम्रः&oldid=491093" इत्यस्माद् प्रतिप्राप्तम्