सामग्री पर जाएँ

आयतिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आयतिः, स्त्री, (आङ् + यम् + क्तिन् ।) उत्तरकालः । भविष्यत्कालः । (यथा मनुः, ७ । १६९, ७ । १७८ । “यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः । तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत्” । “आयतिं सर्व्वकार्य्याणां तदात्वञ्च विचारयेत्” ॥) प्रभावः । कोषदण्डजं तेजः । इत्यमरः ॥ दैर्घ्यं । सङ्गः । इति विश्वहेमचन्द्रौ ॥ प्रापणं । इति धरणी ॥ (राजतरङ्गिणी । “प्रतापमायतिं शोभां हेमन्ताहस्य वारिदः । स्मृतिशेषां करोत्येव लोभश्च पृथिवीभुजां” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आयतिः [āyatiḥ], f.

Length, extension; Mb.5.166.3; stretching, extending; तेषां देवेष्वायतिरस्माकं तेषु नाभयः Rv.1.139.9.

Future time, the future; आयतिप्रदर्शनम्; Kau. A.2.1, ˚भङ्ग K.55 (length also), 58; Dk.29; भूयसी तव यदायता- यतिः Śi.14.5; रहयत्यापदुपेतमायतिः Ki.2.14; Ms.7.169; अनायतिक्षमं वचः Pt.3.111 imprudent, not good for the future; ˚ग्लानिभीतः Mu.4.12; स्थिर˚ Ki.1.23 permanent.

Future consequence or result; आयतिं सर्वकार्याणां तदात्वं च विवारयेत् Ms.7.178; Ki.1.15,2.43,3.43; Ki.4.21; fruit-yielding season.

Majesty, dignity; आयतीमिव विध्वस्ताम् Rām.5.19.12.

Stretching the hand, accepting, obtaining.

Work (कर्मन्); यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम् Ms.7.28 (कर्मक्षमम् Kull.).

Connection, junction.

Meeting, union.

Source, descent; यदायतिः Dk.154 descended from him.

Restraint (of mind).

Arrival; उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा Praśna. Up.3.12.

A long line, succession; द्रक्ष्यन्ति समरे योधाः शलभानामिवायतिः Mb.7.159.71.

"https://sa.wiktionary.org/w/index.php?title=आयतिः&oldid=217411" इत्यस्माद् प्रतिप्राप्तम्