आयसम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आयसम्, क्ली, (अयस् + अण् ।) लौहं । इति भरतः राजनिर्घण्टश्च ॥ अयोनिर्मितादौ, त्रि ॥ (यथा महाभारते, -- “आयसं हृदयं मन्ये तस्य दुष्कृतकर्म्मणः” । यथा मनुः, ८ । ३१५ । “शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा” । रघुवंशे, १७ । ६३ । “स चकर्ष परस्मात् तदयस्कान्त इवायसम्” । (अयोजनितार्थे यथा, -- “विपाके कटु शीतञ्च सर्व्वश्रेष्ठं तदायसम्” ॥ इति वैद्यकचक्रपाणिसंग्रहे ॥)
