सामग्री पर जाएँ

आयुधागारम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आयुधागारम्, क्ली, (आयुधानां, आगारं । षष्ठीतत् ।) अस्त्रगृहं । सेलाखाना इति ख्यातं । इति महा- भारते राजधर्म्मः ॥ तत्र नियुक्तस्य लक्षणं यथा,- “स्थापनाजातितत्त्वज्ञः सततं प्रतिजागृता । राज्ञः स्यादायुधागारे दक्षः कर्म्मसु चोद्यतः” ॥ इति मात्स्ये १८९ अध्यायः ॥ (यथा मनुः ९ । २८० । “कोष्ठागारायुधागारदेवतागारभेदकान् । हस्त्यश्वरथहर्त्तॄंश्च हन्यादेवाविचारयन्” ॥)

"https://sa.wiktionary.org/w/index.php?title=आयुधागारम्&oldid=115870" इत्यस्माद् प्रतिप्राप्तम्